SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ २४०-८ . छन्दोऽनुशासनम्। द्वादशावलम्बनम् ॥ ५.७० ॥ [द्वादश लघवः प्रतिपादं भवन्ति चेत् , अवलम्बनं नाम भवति । ] [सोऽन्ते] ॥ ५.७१ ॥ तस्य प्रतिपादमन्ते प्रायः सैंकारो भवति ॥ ५.७१ ॥ __ उभे रासकम् ॥ ५.७२॥ उभे भङ्गुरासकावलम्बने सहित रासकमित्युच्यते । यथा कथं बाहुमूलत्रिकदेशनिवेशितानि, ___ गृहसेऽद्य वसनेन किमङ्ग नखक्षतानि । लक्षमङ्गनालिङ्गनलग्नमनङ्गसाक्षि, झलक्ष्मा तव भरति तृतीयमिवेदमक्षि॥ दशनद[ल]-प्रेचितेन, क्षतजलवारुणितेन । शोभितेवाधरेण, त्वमसि विलासधरे[ण] ॥ ५.७२.१ ॥ ___ गाथा ॥५.७३ ॥ गादानी वक्ष्यते ॥ ५.७३ ॥ सार्षी ॥ ५.७४॥ सा च गाथा आर्षीति ज्ञेया। ऋषेरेवेयमित्यार्षी । पञ्चखनुष्टुबादिजगत्यन्तेषु सा गाथा भवति ॥ ५.७४ ॥ पादैश्चतुर्भिः षड्भिर्वा ॥ ५.७५ ॥ सा गाथा चतुर्भिर्वा षडिर्वा पादैः खजातीयैर्वा विजातीयैर्वा भवति । यथा पश्यसि पश्यसि परदोषमात्मदोषं न पश्यसि । भर्तारमथ धनं च कुलं च हित्वा किं किं हससि ॥ ५.७५.१ ॥ दश धर्म न जानन्ति धृतराष्ट्र निबोध तान् । । मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः। त्वरमाणश्च भीतश्च कामी चोरश्च ते दश ॥ ५.७५.२॥ ॥ इति जानाश्रय्यां छन्दोविचित्यां जात्यध्यायः पञ्चमः समाप्तः ॥ ३८ जोऽन्ते ed. ३९ अकारो ed. But the letters may even be डोऽन्ते and कारो. ४० कया ed. ४१ झषजन्मा ed. ४२ दशनदहचितेन ed. ४३ शोभितेन वाधरेण ed. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy