SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ २४०.४ छन्दोऽनुशासनम्। यी वान्त्यः ॥५.४७॥ अन्त्यो गणश्चतुणां पादानां निर्धायिकाया यकारो वा ईकारो वा भवति ॥ ५.४७ ॥ क् तृतीयः॥ ५.४८ ॥ तस्याः निर्धायिकायाः प्रतिपादं तृतीयो गणः प्रायेण ककारो भवति । यथा बाले बालेन्दुखण्डधारिणा, क्रोधाद् दग्धोऽपि मन्मथाधमः। सकलं लोकं हि चण्डमानसो, निशितैर्बाणैर्भिनत्ति मर्मसु ॥ ५.४८.१ ॥ पञ्च नर्कुटकम् ॥५.४९॥ प्रतिपादं पश्च गणा भवन्ति चेत् , नर्कुटकं नाम भवति । [यी वा द्वितीयतृतीयौ ॥ ५.५० ॥] तस्यैव नटिकस्य द्वितीयतृतीयगणौ यकार ईकारो वा भवतः ॥ ५.५० ॥ तृतीयो व वा ॥ ५.५१॥ तस्यैव नकुटेकस्य तृतीयो गणो बकारो वा भवति । यथा उपरि विधूतभस्मनिकर प्रवरसुरभितं, श्रवणभुजङ्गवक्रमरुता दहनकणमुचा । धवलितमिन्दुखण्डकिरणैः क्षरदमृतलवैः, कपिशमयूखभिन्नतिमिरं नयनमवतु वः॥ ५.५१.१ ॥ इदं वरं विज़म्भमाणः कुमुदानन्दः, स तु नवनीतपिण्डसदृशस्तिमिरविमथनः। रजनिकैरोऽप्युपैति शनकैर्गगनं नील, सरस इव [च सरो] नीलं [सु] विपुलं हंसः ॥ ५.५१.२ ॥ षडधिकाक्षरा ॥५.५२॥ प्रतिपादं षट् गणा भवन्ति चेत्, अधिकाक्षरा नाम भवति ॥ ५.५२ ॥ युङन क्॥५.५३ ॥ तस्या अधिकाक्षरायाः प्रतिपादं युग् गणः ककारो न भवति ॥ ५.५३ ॥ क तृतीयः॥५.५४ ॥ तस्या अधिकाक्षरायाः प्रतिपादं तृतीयो गणः ककार एव भवति ॥ ५.५४ ॥ - . . नकुटकम् ed; ( नकुक्कुटकं-ख; नकुर्कुटकम्-क). ९ भवति ed. १० नकुर्कुटकस्य-क; ११ निकरप्रवरसुरभित ed. १२ इदं वरं एष विजृ° ed. १३ रजनीकरो ed, १४ नील ed, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy