________________
परिशिष्टम् (जानाश्रयी)।
२४०.३
यथा
भ्रमद लिकुल[कल ]विरुतप्रविततकमला विभान्ति कमलिन्यः। भासुरमरकतमणिनिभकोमलमृदुचारुवर्णसंछन्नाः ॥ ५.४०.१॥
ध्रुवोभयोनी ॥५.४१॥ सैव गीतिश्चतुर्थे गणे यतिरुभयोरयोर्भवति चेत् , ध्रुवा नाम भवति । यथा
ललनाननानि नीलालकानि ललितानि [लोलनयनानि ] । राजन्ति बन्धुजीवाधराणि रतिभोगसारसहितानि ॥ ५.४१.१॥
गीतिका सप्तमो यी वा ॥ ५.४२॥ सैव गीतिर्गीतिका नाम भवति सप्तमो गणो यकार ईकारो वा भवति चेत् । यथा
त्वामिह धैन्यं मन्ये विचित्रधर्मार्थकामसंश्रयासु। यस्य चरितं तव मतं विद्वज्जनवल्लभासु गीतिकासु ॥ ५.४२.१ ॥
कचित् तृतीयश्च, पञ्चमोऽपि ॥५.४३ ॥ कचित् प्रयोगान्तरे उभयोरप्यर्धयोस्तृतीयश्च पञ्चमश्च गणो यकार ईकारो वा भवति । अपि शब्दादेकस्मिन्नप्यर्धे भवति । प्रयोगे यत्नः कार्यः ॥ ५.४३ ॥
पूर्णाार्यागीतिः॥५.४४॥ . सैव गीतिः पूर्णार्धा आर्यागीति म भवति । यथा
. एतत्तद्धजयुगलं मन्दरगिरिभित्तिघट्टिताङ्गदवलयम् । । अस्ति तुमुलशरपाटितवर्म रुधिररागसंभृतचर्म ॥ ५.४४.१ ॥
इत्यार्याप्रकरणम् । आर्याजातिः सोपजातिरुक्ता । इदानीमन्याश्च काश्चिजातयो लोके प्रचरन्त्यो वक्ष्यन्ते ।
.. प्रतिपादं पश्चाधं च गलितम् ॥५.४५॥ पञ्च गणा गणस्याधं च पादे पादे भवन्ति चेत् , गलितं नाम भवति । यथा.. न स्मरसि किं त्वदीरित-शर-भासुर-तानाम् ,
अटवीषु चोग्र-केसरि-शरभासु-रतानाम् । अथवा वसन्तदृष्ट्या निशातदन्तस्य, . प्रातर्बाधाय शरनिशा तदन्तस्य ॥ ५.४५.१॥
चत्वारो निर्धायिका ॥ ५.४६॥ चत्वारो गणाः प्रतिपादं भवन्ति चेत् , निर्धायिका नाम भवति ॥ ५.४६॥
१ मरतक ed. २ ललनावनानि ed. ३ धन्यां ed. ४ मनो ed. ५ अत्ति तुमुलसरपातितकर्म ed; (तन्म for कर्म-कग). ६ वसन्तकस्य दृष्टया (कग) अथवान्तकस्य सृष्टया-Ratnamanjusa. ७ प्राप्ता बोधाय Ratnamanjusa... . .
.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org