SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ २३५ · अष्टमोऽध्यायः। अथोद्दिष्टस्य संख्यापरिज्ञानार्थमाह - __ उद्दिष्टेऽन्त्याल्लाद् द्विर्येकं त्यजेत् ॥ ६॥ केनच्चित्प्रस्तारोक्ते वृत्ते कतिथमित्युद्दिष्टे यथा -(55।) एवं गलेषु स्थापितेषु अन्त्याल्लादारभ्य अर्थात् "पश्चानुपूर्व्या अधो द्विरिति द्विगुणोऽङ्कः कार्यः। ग् चेदेकं त्यजेत् । गुरोरधो द्विगुण एकोनः कार्यः। अयमर्थः- अन्त्यस्य लस्याधो योऽङ्कस्तं द्विगुणयेत् । स च निराकाराया आवृत्तेरसंभवात्प्रथमातिक्रमे कारणाभावादेक एव परिशिष्टो द्विगुणीकृतो द्विको जातस्ततस्तस्मादपनीय तत्पूर्वस्य गुरोरधो निधाय द्विगुणीकृतश्चतुष्कः । स एकोनः कृतस्त्रिकः। पुनस्तत्पूर्वस्य गुरोरधो निधाय द्विगुणीकृतः षवः । स एकोनः कृतः पञ्चकः । तदीदृशं पञ्चमं वृत्तमिति ॥ ६॥ अथ जातीनामुद्दिष्टमाह आद्यमन्त्येन हतं व्यधस्तनम् ॥७॥ स जयति कुमारपालः श्रीमानवनिपतिशतविनुतचरणः । निर्मलयशसा धवलितभुवनश्चक्रधरतुल्यौजाः ॥ ७.१ ॥ केनचिदियमार्या कतिथीति पृष्टे अस्या गणान्संस्थाप्य तदधश्चतुःपश्चादिका विकल्पसंख्यां यथासंभवं लिखेत् । ततो गणितक्रमेण आद्यमन्त्येनं हत्वा व्यधस्तनमिति तत्र दृष्टविकल्पादधस्तैनान् विकल्पान् राशेय॑पोह्य संख्यां लब्धामेतावतिथं वृत्तमिति निर्दिशेत् । कथम् । अन्ते न्यस्तस्य अर्धगणस्य अविकल्पत्वात् एकमङ्कमधो निधाय सप्तमगणस्य चतुर्विकल्पत्वाच्चतुर्भिर्हन्यात् । जातानि चत्वारि । इह दृष्टः सर्वगुरुः । तस्याधस्तनान् अन्तगुरु-आदिगुरु-सर्वलघून त्रीन् अस्माद्राशेः पातयेत् । शेषमेकम् । षष्ठश्चाविकल्पः । "पञ्चमे चतुर्भिर्हते अधस्तने चैकस्मिन्सर्वलघौ त्यक्ते त्रीणि । चतुर्थे पञ्चभिहतेषु पञ्चदश । "अधस्तनेषु त्रिषु त्यक्तेषु द्वादश । तृतीये चतुर्भिर्हतेषु अष्टचत्वारिंशत् । त्याज्यं नास्ति । द्वितीये" पञ्चभिर्हतेषु त्रिषु त्यक्तेषु द्वे शते सप्तत्रिंशदधिके । प्रथमे - 1) पश्चानुपूर्व्या अधो द्विरित्यत्र लघोः प्रान्त्यसबन्धिनोऽधो द्विगुणः । यदा प्रान्ते गुरुर्भवति तदा द्विगुणं अकं कृत्वा एकं पातयेत् । 2) व्यपोह्य अपनीय। 3) अर्धगणेत्यत्र अर्धगणं हि एकगुरुत्वात् । 4) पञ्चमे चतुर्भिहते अधस्तने दले पञ्चमे स्थाने यश्चतुर्लक्षणोऽङ्कः स एकेन अवशिष्यताङ्केन गुण्यः । जाताश्चत्वारः । तदनन्तरमत्र पञ्चमे स्थाने सर्वलघुः पाश्चात्यो गणोऽस्ति अतः प्रान्त्योऽस्याग्रे स्थितः सर्वलघुसंबन्धी चतुर्णा मध्ये निष्काशनीयः । अवशिष्टास्त्रयः। 5) अधस्तनेषु इत्यत्र अत्र प्रान्तगुरुरस्ति भतो गणसंबन्धि अङ्कत्रयं पातयेत् । १ द्विग्चेकं B; द्विग्रंकD; द्विर्गे ANP. २ यथा Iss एवं लगेषु ON; यथा । एवं लगेषु A; यथा ।। एवं लगेषु D. ३ द्विगुणयेत् B.४ तत्पूर्वगुरोः BP. ५ कृत dropped in A, ६ कृतषकः . ७ कृत: dropped in cD. ८ वृत्तं पञ्चममिति A. ९ अन्तेन ABODGP. १० अन्तेन ADGH. ११ अधस्तान् N. १२ निदेशेयेत् B. १३ एकमङ्कमन्ते निधाय A; एकमधो निधाय B. १४ तृतीय स्थाने B. १५ द्वितीय स्थाने B, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy