SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ २३४ छन्दोऽनुशासनम् । इति तद्विकल्पेषु चतुर्थ सर्वलधुं न्यसेत् (।।।।)। द्वितीयो गणः पञ्चविकल्प इति पञ्चभिर्हरेत् । लब्धं षट् लक्षाः षट् सहस्राः षष्टयधिकाः । राशेश्च हृताः शेषं त्रीणि इति तद्गणविकल्पेषु तृतीयं मध्यगुरुं न्यसेत् । ततो राशिशेषं लब्धं सैकं इति वचनाल्लब्धं सैकं कृत्वा तृतीयगणश्चतुर्विकल्प इति चतुर्भिर्हरेत् । लब्धमेकं लक्षमेकपञ्चाशत्सहस्राः पञ्चशतानि पञ्चदशोत्तराणि । राशिशेषमेक इति तद्विकल्पेषु प्रथमं सर्वगुरुं न्यसेत् । लब्धं सैकं कृत्वा चतुर्थगणस्य पञ्चविकल्पत्वात् पञ्चभिर्हरेत् । लब्धं त्रिंशत्सहस्राः त्रीणि शतानि व्युत्तराणि । राशिशेषमेक इति प्रथमविकल्पं सर्वगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा पञ्चमगणस्य चतुर्विकल्पत्वात् चतुर्भिर्हरेत् । लैब्धं पञ्चसप्ततिः शतानि षट् सप्तत्यधिकानि । शेषं चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत् । ततः षष्ठस्य द्विविकल्पत्वात् द्वाभ्यां हरेत् । लब्धं सप्तत्रिंशच्छतानि अष्टाशीत्यधिकानि । शेषं द्वे इति द्वितीयविकल्पं सर्वलघु न्यसेत् । ततः सप्तमगणस्य चतुर्विकल्पत्वाच्चतुर्भिहरेत् । लब्धं नव शतानि सप्तचत्वारिंशदधिकानि । शेषं चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत् । अन्ते नित्यविन्यासं : गुरुं न्यसेत् । ततः सप्तमगणाल्लब्धं परार्धादिगणस्य चतुर्विकल्पत्वाच्चतुर्भिहरेत् । लब्धं द्वे शते षट्त्रिंशदधिके । राशिशेषं त्रीणीति तृतीयविकल्पमादिगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा द्वितीयगणस्य पञ्चविकल्पत्वात् पञ्चभिर्हरेत् । लब्धं सप्तचत्वारिंशत् । राशिशेष द्वे इति द्वितीयविकल्पमन्तगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा तृतीयगणस्य चतुविकल्पत्वाच्चतुर्भिर्हरेत् । लब्धं द्वादश । शेषं चत्वारीति चतुर्थविकल्पं सर्वलघु न्यसेत् । ततश्चतुर्थगणस्य पञ्चविकल्पत्वात्पञ्चभिर्हरेत् । लब्धं द्वे । राशिशेषं द्वे इति द्वितीयविकल्पमन्तगुरुं न्यसेत् । ततो लब्धं सैकं कृत्वा पञ्चमगणस्य चतुर्विकल्पत्वाच्चतुर्भिहेरेत् । लब्धं शून्यम् । राशिशेषं त्रीणीति तृतीयविकल्पमादिगुरुं न्यसेत् । षष्ठो नित्यविन्यासो लघुरेव । ततो लब्धं सैकं कृत्वा सप्तमगणस्य चतुर्विकल्पत्वाच्चतुर्भाहरेत् । लब्धं शून्यम् । शेषमेकमिति प्रथमविकल्पं सर्वगुरुं न्यसेत् । अन्ते नित्यविन्यासो गुरुरेव । स्थापना यथा-।।।। ।।, 55, 55, ।।।। ।।।। ।।।।, 5, 5।। ।।s, ।।।। ।।s, 5।। ।, ss, s. १२१२१२१२ संख्यतमैषा आर्या । यदाह नष्टाङ्के प्रथमं भक्ते गणाकैश्चतुरादिभिः । शेषसंख्यो गणो देयो लब्धं कुर्यात्सरूपकम् ॥ ५.१॥ पुनर्भजेत्पुनर्लब्धं सरूपं शेषसंख्यया । गणान्दद्याद्गते शेषे गाथायाः प्राग्गणक्रमः ॥ ५.२ ॥ एवमन्येष्वपि मात्राच्छन्दःसु नष्टविधिज्ञेयः । इति नष्टानयनम् ॥ ५.२ ॥ १ चत्वारि A. २ हृतशेष AD; हृतशेषत्रीणि C. ३ लब्धं dropped in D. ४ चतुर्विकल्पं A. ५चतुर्विकल्पं AC.६ पञ्चमेदत्वात् ABD. ७ स्थापना to आर्या dropped in ABP. ८ चतुरादिकैः DP. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy