________________
अष्टमोऽध्यायः।
२३३ द्वात्रिंशच्छत्या निष्ठितः । सप्तमगणश्चतुर्भेदः एकैको द्वात्रिंशच्छतीकृत्वो द्वादशभिः सहस्रैः अष्टशत्युत्तरैर्निष्ठितः । अन्त्यो गुरुरेक एव । एकेन गुणितं तदेवेति तावद्भिरेव निष्ठितः । एवं निश्चितं पूर्वार्धम् । परार्धमपि गणविकल्पानिश्चित्य प्रस्तारयेत् । एवमन्येष्वपि मात्राछन्दःसु प्रस्तारो ज्ञेयः इति ॥ २॥ समवृत्तानां प्रकारान्तरेण प्रस्तारमाह
ग्लावधोधो द्विर्द्विरतः ॥ ३ ॥ समवृत्तानां प्रस्तारे चिकीर्षिते प्रथमपतौ यावत्संख्यापरिमाणमेकान्तरितावधोऽधो गुरुलघू स्थाप्यौ । अतः परं द्वितीयादिपतिपु द्विगुणद्विगुणा गुरवो लघवश्च अधोऽधः स्थाप्याः । यथा- त्र्यक्षरे छन्दसि प्रथमपतौ एकान्तरिताः गुरुलघवः अष्टसंख्यां यावत् स्थाप्याः । द्वितीयपतौ द्वौ द्वौ । तृतीयपतौ चत्वारश्चत्वारः।
इति प्रस्तार उक्तः॥३॥ समवृत्तानां नष्टमाह
नष्टेऽङ्कस्य दले लः सैकस्य गः॥४॥ किंचिद्वृत्तं नष्टं चतुर्थ पञ्चमं वा । तत् समं यदि भवति तदा दलेऽर्धे कृते ल इति लघुर्लभ्यते । पुनर्दले लघवो लभ्यन्ते । अथ वैषम्यात् संख्या अर्ध न ददाति तदा सैकस्य गः इति सैकस्याङ्कस्य दले कृते गुरुलभ्यते । पुनस्तथेति नष्टवृत्तमुत्पद्यते । यथाअत्रैव त्र्यक्षरे छन्दसि पञ्चमं वृत्तं नष्टम् । पञ्च अर्ध न ददतीति सैकाः षट् तदर्धे गुरुः । पुनस्त्रयोऽधं न ददति । सैकाश्चत्वारः तदर्धे गुरुः । द्वयोरर्धमेक इति लघुरिति द्वौ गावेको
लः ईदृशं पञ्चमं वृत्तं (551) इति ॥ ४ ॥ ... समवृत्तनष्टविधिरुक्तः । जातीनां नष्टविधिरुच्यते
नष्टाङ्के गणैर्हते शेषसंख्यो गणो देयो
राशिशेष लब्धं सैकम् ॥५॥ नष्टस्य वृत्तस्याङ्के स्थापिते गणैर्गणविकल्पैहते यच्छेषं तत्संख्यो गणो देयः । यत्र तु राशिशेषं भवति तत्र लब्धं सैकं कार्यम् । ततः पुनस्तस्मिन्नुत्तरगणेविकल्पैहते शेषसंख्यो गणो देयः। यथा-आर्याप्रस्तारे एका कोटिरेकविंशतिर्लक्षाः एकविंशतिः सहस्राः द्वे शते द्वादशोत्तरे इत्येतावत्संख्यं वृत्तं नष्टं कीदृशमिति पृष्टे प्रथमगणश्चतुर्विकल्प इति चतुर्भिनष्टाङ्क हरेत् । लब्धं त्रिंशल्लक्षास्त्रिंशत्सहस्रास्त्रीणि शतानि व्युत्तराणि शेषं चत्वारि"
1) शेषं चत्वारीत्यत्र अत्र नष्टाङ्कराशिनिलेपो जातः। परंतु चतुभिर्भागो धृतः । ततः शेषं चत्वारि ।
१ नष्टाङ्कस्य N. २ पुनस्तद्वत् N. ३ उद्याद्यते c. ४ सैका N; सैकां A. ५ त्रयाध N. ६ ददाति B. ७ हृतशेष. N. ८ राशिषं A. ९गण dropped in A. १० चतुर्थवि. N
३० छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org