SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ २३२ छन्दोऽनुशासनम् । अथ जातिष्वार्यायाः प्रस्तारो यथा प्रथम गणस्य द्विगुरोः (ss) आद्यंस्य गुरोर धो लघुः स्थाप्यः । ततः परमुपरिसममिति परगुरुसहितद्वितीयादिगणानामधो गुरवः स्थाप्याः । प्राक्पूर्वविधिरिति यावत्यः प्रथमगणे मात्रास्तावत्यो गुरुलघुक्रमेण पूरणीयाः । ततश्चतुर्मात्रत्वात्पूर्वगणस्य एको मात्रा प्रक् न्यसनीया । तेन द्वितीयभेदे प्रथमगणो गुर्वन्तः ( 115 ), अन्ये तु गुर्वात्मकाः । पुनराद्यगुरोरधो लघुस्ततः परमुपरिसममिति अन्ये गणा गुर्वात्मकाः । प्राक्पूर्वविधिरिति मात्रात्रये प्रथमगणसंबन्धिन्यवशिष्टे यदि लघुपूर्वो गुरुर्दीयते तदा नौजे जः इति वचनात् समयभेद्ः स्यात् । ततो गुरुपूर्वो लघुर्दीयते इति तृतीयभेदे गुर्वादिः (511) प्रथमो गणः । शेषाश्च तथैव" । पुनराद्यगुरोरधो लघुस्ततः परमुपरिसममिति द्वौ लघू शेषाश्च गणा गुर्वात्मकाः । प्राक्पूर्वविधिरिति एका मात्रा प्रथमगणे अवशिष्यते । सा प्राक् न्यस्येति चतुर्थे भेदे सर्वलघुः प्रथमो गणः ( । । । । ), शेषाश्च तथैव । पुनर्द्वितीयगण - प्रथमगुरोरो लघुः । ततः परमुपरिसममिति द्वितीयंगणद्वितीयगुरुत आरभ्य सर्वे गुरवः । प्राक् पूर्वविधिरिति यदि लघुपूर्वं गुरुद्वयं दीयते तदा गणनाशात्समयभेदः स्यात् । तदेतन्मा भूदिति द्वितीयगणापेक्षयैव द्वितीयगणलघोः पूर्वो लघुर्देयः । " प्रथमच गणः सर्वगुरुरिति पूर्वविधिना गुर्वात्मक इति द्विगुरुर्गुर्वन्तश्च पञ्चमे भेदे प्रथमद्वितीयौ गणौ । ततः षष्ठसप्तमाष्टमेषु भेदेषु क्रमेण द्वितीयतृतीयचतुर्थभेदतुल्यः प्रथमो गणो द्वितीयश्च गुर्वन्त एव । ततो नवमे भेदे द्वितीयगणगुरोरधो लघुः । ततः प्राक्पूर्वविधिरिति लघुपूर्वी गुरुः प्राग् देयः । तेन जगणस्तत्र संपन्नः । " प्रथमच गुर्वात्मकः । उपरितुल्यत्वं पुनः परेषां स्थितमेव । यावद्विशतितमे भेदे गणद्वेयं लघुरूपं संपन्नमिति द्वितीयो गणो विंशत्या निष्ठितः । तृतीयगणः "चतुर्भेदः एकैको "विंशतिकृत्वोऽशीत्या निष्ठितः । चतुर्थगणः पञ्चभेदः एकैकोऽशीतिकृत्वः चतुःशत्या निष्ठितः । पञ्चमगणञ्चतुर्भेदः एकैकः चतुःशतीकृत्वः षोडशशत्या निष्ठितः । षष्ठगणो द्विभेदः एकैकः षोडशशतीकृत्वो 1 ) तथैव पुनरित्यत्र यथाक्रमं न्यस्ता गुर्वात्मका अन्ये इति । 2 ) प्रथमश्च गणेत्यत्र गणस्य चतुर्मात्रिकतया नाशो गणनाशः । तथा हि यदि पूर्व गुरुद्वयं दीयते तदा प्रथमो गणस्त्रिमात्रो द्वितीयः पञ्चमात्रः प्रथमस्त्रिमात्रो वा स्यात् । गणस्तु चतुर्मात्र एव स्थाप्य इति समयः । 3 ) प्रथमः पाश्चात्यः 4 ) परेषां स्थितेत्यत्र अग्रेतनानाम् । तथाविधमेव सर्वगुरुरूपम् । 5 ) चतुर्भेद इत्यत्र जगणरहितत्वात् । 6 ) विंशतिकृत्वो इत्यत्र विंशतिश्चतुभिर्गुणिताशीतिः । 7 ) पञ्चभेदेत्यत्र जगणसहितत्वात् । १ प्रथमगणस्य BP. २ आद्यगुरोः A ३ अत्रैका मात्रा C; अत्रैकमात्रा BP. ४ प्राकू dropped in A. ५ प्रथमो गणो ABCP. ६ गुर्वादि AN. ७ अवशेष्यते AC. ८ सा च BP. ९ चतुर्भेदे १२ गणद्वयलघु ० C. N; चतुर्थभेदे C. १० द्वितीयगण dropped in A ११ लघुपूर्वोक्तगुरुः A. १३ द्वितीयगणो ० १४ असीत्या P. १५ चतुर्थगणपञ्च मेद एकेसी तिकृत्वः A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy