SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अथ अष्टमोऽध्यायः। अथ प्रस्तारादयः षट् प्रत्ययाः॥१॥ प्रस्तार्यत इति प्रस्तारो वृत्तानां विस्तरतो विन्यासः। स आदिर्येषां प्रत्ययानां ते प्रस्तारादयः। प्रतीतिजननात्प्रत्ययास्तेऽधिक्रियन्ते । ते च षट् । यदाहुः प्रस्तारो नष्टमुद्दिष्टं सधैंकादिगलक्रिया। संख्या चैवाध्वयोगश्च षडेते प्रत्ययाः स्मृताः ॥ १.१ ॥ तत्र प्रस्तारमाह प्राकल्पाद्यगोऽधो लः परमुपरिसमं प्राक पूर्वविधिरिति समयभेदकृर्ज प्रस्तारः॥२॥ तत्रायं क्रमः । पादे अर्धे छन्दसि वा यावन्तो वर्णास्तावन्तो गुरवः प्रथमविकल्पे स्थाप्याः। यथा- समवृत्तस्य व्यक्षरे पादे गुरुत्रयं 555; ततोऽस्य प्राकल्पस्यायो यो गुरुस्तस्याधो लघुः स्थाप्यः । ततः परमुपरिसमं स्थाप्यम् । यत्रोपरि गुरुस्तत्राधस्तादपि गुरुः यत्रोपरि लघुस्तत्राधस्तादपि लघुः । यथा- sss, 55; पुनः प्राकल्पाद्यगुरोरधो लघुः स्थाप्यः। परमुपरिसममिति वचनात् ततः परं गुरुः स्थाप्यः । ततः स्थापितलघोः प्राक् पृष्ठे पूर्वविधिरिति पूर्वस्य प्रथमविकल्पस्य सर्वगुरोविधिविधानम् । प्रथमविकल्पे यो वर्णः स चेह गुरुरेव । यथा- sss, ss, s। 5. एवं सर्वलघुविकल्पं यावदयं विधिः करणीयः। यथा-55s, Iss, s।s, ।। 5, 55। । ।, s।।।।। समयभेदकद्वर्जमिति-समयोऽभ्युपगमस्तद्भेदकारी विकल्पः" प्रस्तारक्रमायातोऽपि वर्जनीयः । संख्यायां न गणनीय इत्यर्थः । अस्य चार्घसमादावुपयोगः ॥२॥ इति समवृत्तप्रस्तारः। अर्धसमप्रस्तारे त्वर्धस्य प्रस्तारः कार्यः। यथा-यक्षरपादद्वयस्य सर्वगुरोः 55; 55. आद्यगुरोरधो लघुः । ततः परमुपरिसममिति परतो गुरुत्रयं स्थाप्यम् ।s, ss. पुनः प्राकल्पाद्यगोऽधो ल इति प्रथमपादद्वितीयगुर्वक्षरस्याधो लघुः । परतस्तु परमुपरिसममिति गुरुद्वयम् । ततः प्राक्पूर्वविधिरित्यादौ गुरुः स्थाप्यः 51 ss, अनया रीत्या सर्वलघु यावत् षोडश भेदाः अथ अष्टमोऽध्यायः ___1) सर्वैकादीत्यत्र एक आदौ येषां ते एकादयः ते च ते गलाश्च एकादिगलाः सर्वे च ते गलाश्च तेषां क्रिया। 2) तद्भेदकारी विकल्पेत्यत्र अर्धसमादीनां यः प्रस्तुतः प्रस्तारः तस्य चैतत्सादृश्यापादकः । १ ततोऽल्पस्य D. २ पृष्टे ABODP. The following table is dropped in N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy