________________
छन्दोऽनुशासनम् ।
चलतावतिदीर्घ ढजैः॥५५॥ चतुर्मात्रनवकं त्रिमात्रश्चातिदीर्घम् । ढजैरिति चतुर्दशभिरष्टभिश्च यतिः।
यथा"जइ जाहिं सुरसरिअ जइ गिरिनिज्झर सेवहिं जइ पइसहि काणणतरुसंडय । रिउ निव तुवि नवि छुट्टहिं पहु तुझु पयावहु कालहु अइदीहर भुअदंडय ॥५५.१॥
___षाचूता मत्तमातङ्गविजृम्भितम् ॥५६॥ ढजैरिति वर्त्तते । षण्मात्रद्वयं चतुर्मात्रषट्कं त्रिमात्रश्च मत्तमातङ्गविजृम्भितम् ।
यथा"पयडिअलंछणमयलेहिण उल्लासिअकरदंडिण ताराहरणिण निसिअरिण । उअ नीसंकिण भउ विरहिणिजणहु जणिज्जइ असमु मत्तमायंगविअंभिईण ॥५६.१॥ ___चत्वारिंशत्कला एकद्वयधिका वा मालाध्रुवकम् ॥५७ ॥
चत्वारिंशन्मात्रा यद्वा एकद्वयधिका इति एकचत्वारिंशद् द्विचत्वारिंशद्वा मालाध्रुवकं नाम द्विपदी । यथा"तुह पुहईसरसेहर कित्ति अकित्तिम सुरहिअदिसिमुह जाम्वहिं सग्गि पइदिअ । ताम्वहिं तक्खणि सुरसुंदरिलोअहुँ सुरतरुकुसुममाल ध्रुवु हुअ मणउब्बिढिअ॥ ५७.१ ॥
एवमेकद्वयधिकयोरप्युदाहार्यम् । एवं द्विपदीध्रुवा चतुःषष्टिः ॥ ५७.१ ॥ __ अयं चात्र विवेकः
सिंहावलोकितार्थेषु विज्ञप्तौ संविधानके। मङ्गले च ध्रुवा प्रोक्ता द्विपद्यन्यत्र कीर्त्यते ॥ ५७.२ ॥ इति ।
- 1) तुहेत्यत्र तव हे पृथ्वीश्वरशेखर कीर्तिरकृत्रिमा सुरभितदिङ्मुखा यावत्स्वर्गे प्रतिष्ठिता तावत्क्षणे सरसुन्दरीलोकस्य सुरतरुकुसुममाला ध्रुवं संजाता मनोऽप्रिया अवल्लभेत्यर्थः। 2) जईत्यत्र हे अतिदीर्घभुजदण्ड यद्यपि हे नृपवर तव वैरिणः सुरसरितं गङ्गां प्रतियान्ति यदि च गिरिनिराणि सेवन्ते यदि कान्तारतरुषण्डेषु प्रविशन्ति तथापि काल इव कालात्तव प्रतापान च्छुटन्ति । 3) पयडियेत्यत्र पश्य । निशाकरेण विरहिणीजनस्य असमं भयं जन्यते । कथंभूतेन मत्तमातङ्गवद्विजृम्भितं यस्य सः तेन । प्रकटिता लाम्छनमेव मदलेखा येन सः [तेन] । उल्लासितकरदण्डेन । तारा एवाभरणानि यस्य स तथा [ तेन ] । मत्तमातङ्गोऽपि मदलेखां प्रकटयति, करदण्डमुल्लासयति, ताराणि दीप्राणि आभरणानि धसे बिभर्ति । ।
१ सेवइ8; सेवइहिं D. २ तुज्झ ACP. ३ अइदीहिहर. N. , ४ पडिडय A. ५ उभ 8. .६ वियमिइण A; विभिइअ03; वियंभिइण BP. ७ तह DN. ८ कित्तिय कित्तिम A. ९ लोअह , लोअहं B..१० ध्रुव . ११ उच्छिट्ठिअ N. १२ व ANS. १३ द्विपदान्यत्र N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org