SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ २१४ छन्दोऽनुशासनम् । चु लयः॥४॥ च इति लुप्तविभक्तिको निर्देशः । सप्त चगणा लयो नाम द्विपदी । यथा "किउ उरि लच्छिहिं निलउ करिण कलिउँ चक्कु महिअलु धरिउ । बलिनाम्वु सहिउ न हु कहँ वि हु पहु तुडं पुरिसोत्तिमचरिउ ॥ ४.१ ॥ स भ्रमरपदं अजैः॥५॥ स लयः अजैर्दशभिरष्टभिश्च कलाभिर्यतिश्चेत्तदा भ्रमरपदम् । यथा "ललिअविलासोचिअ तविण किलेसहि सहि किं तणु अप्पणु । मालइकुसुमुं सहइ भमरपँउ न उण खरसउणिझडप्पणु ॥ ५.१ ॥ षचुदा उपात् ॥ ६॥ एकः षण्मात्रः पञ्च चतुर्मात्राः द्विमात्रश्चैको यदि तदा उपात्परं भ्रमरपदमुपभ्रमर'पदमित्यर्थः । अजैरिति वर्तते । यथा "तहि मुद्धहि नेहंधहि किम्व किवणेय तुंह खलिउ पयट्ट । उअ भमरपएण वि भज्जइ मालइनवकुसुमु विस१ ॥ ६.१ ॥ चूपौ गरुडपदम् ॥७॥ षट् चगणाः पगणश्चैको गरुडपदम् । यथा___ "जसु पोरु लहंति कया वि न वि सुरगुरुभिउनंदणपमुह । अरिपन्नगगरुड पयंपिअइ सयलु वि गुणगणु सु किम्व तुह ॥ ७.१ ॥ षचुता उपात् ॥ ८॥ एकः षण्मात्रः पञ्च चतुर्मात्राः एकस्त्रिमात्रो यदि स्यात्तदोपात्परं गरुडपदम् । उपगरुडपदमित्यर्थः । यथा 1) किउ उरि इत्यत्र कृतः उरसि लक्ष्म्या निलयः। करेण कलितं चक्रम् । देशः महीतलं धृतम् । बलिनां राज्ञां नाम न सोढं कथमपि । हे पुरुषोत्तमचरितोऽसि । तस्याप्युरसि श्रीनिलयं करोति । सोऽपि करे चक्र कलयति । महीवलयं धरति । बलेर्दानवस्य नाम न सहते। 2) ललितेत्यत्र ललितविलासोचितां तपसा क्लेशयसि हे सखि किं तनुमात्मनः । मालतीकुसुमं भ्रमरपदं सहते । न पुनः खरशकुनिस्पर्शनम् । 3) तहीत्यत्र तस्या मुग्धायाः स्नेहान्धायाः कथं कृपण । लक्षणया हे अज्ञान । तव स्खलितं प्रवृत्तम् । इत्याह-पश्य भ्रमरपदेनापि भज्यते मालतीकुसुमं विकसितम् । 4) जसु पारु इत्यत्र यस्य गुणगणस्य पारं न लभन्ते कदापि सुरगुरुभृगुनन्दनप्रमुखाः हे अरिपन्नगगरुड स तव सकलोऽपि गुणगणः कथं प्रकाश्यते । अपि तु न प्रकाश्यते इत्यर्थः । • १ उवरि D. २ कलिण N; कलिओ A. ३ बलिनालिनाम्वु D; बलिनाउं BP. ४ कहि P. ५पुरिसोत्तम. A. ६ कुसुम A. ७ भमरपओ ONS; भमरपउं BE. ८ किंव ABP; किम D. ९ किविणय . १० तुहुँ P. ११ ओ B. १२ पार A. १३ तुहु s. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy