________________
षष्ठोऽध्यायः।
- २११ "जे निअहिं न परदोस, गुणिहिं जि पयडितोस । ते जगि महाणुभौवा, विरला सरलसहावा ॥ २७.१ ॥
____षचताश्चापौ पातौ वाप्सरोविलसितम् ॥ २८ ॥ षण्मात्रचतुर्मात्रत्रिमात्रा वा चतुर्मात्रद्वयपञ्चमात्रौ वा पञ्चमात्रद्वयतिमात्रौ वा यत्र तदप्सरोविलसितम् । यथा
"पई ससिवयणिए विब्भमि, हसिझे अच्छरविलसिअई। भुमईहि किउँ पाइक्कउ, मयणु मोहिअजणमणइं ॥ २८.१ ॥ .
षचचाश्चिदौ वा गन्धोदकधारा ॥ २९ ॥ षण्मात्रश्चतुर्मात्रद्वयं यदि वा चतुर्मात्रत्रयं द्विमात्रश्च सा गन्धोदकधारा । यथा
"रमणिकवोलकुरंगमय-, पत्तलयाविलअंसुभवि । घणगंधोदयधारभरि, वइरिअ तुह पहायंति सवि ॥ २९.१ ॥
चितौ षचपा वा पारणकम् ॥ ३० ॥ चतुर्मात्रत्रयं त्रिमात्रश्च यदि वा षण्मात्रचतुर्मात्रपञ्चमात्राः पारणकम् । यथा
"कइअहिं होएसँइ तं दिवसु, आणंदसुहारसपावणउं । होही प्रियमुहससिचंदिमई, जहिं नयणचउ(ओ)रहं पारणउं ॥ ३०.१ ॥
चीः पद्धडिका ॥ ३१॥ चगणचतुष्कं पद्धडिका । यथा
"परगुणगहणु सदोसपयासणु, मैंहुमहुरक्खरहिअमिअभासणु । __उवयारिण 'पँडिकिउ वेरिअणहं, इअ पद्धंडी मणोहर सुअणहं ॥ ३१.१ ।।
1)जे निभहिं नेत्यन्न ये सत्पुरुषाः परदोषान् न पश्यन्ति किं तु गुणैरेव प्रकटिततोषाः त एव जगति महानुभावाः। विरलाः स्तोकाः। कीदृशाः । सरलस्वभावाः। 2) पई ससिवयणिए इत्यत्र त्वया शशिवदनिके विभ्रमेण विलासेन हसितानि अप्सरोविलसितानि । भ्रवा कृतोऽल्पपदातिर्मदनः कामः। किंविशिष्टया भ्रवा । मोहितजनमनसा। 3) रमणिकवोलेत्यत्र रमणीकपोलेषु या कुरङ्गमदपत्रलताः कस्तूरीपत्रवल्लयस्ताभिराविलानि श्यामीकृतानि यान्यश्रूणि तेभ्यो भवः उत्पन्नस्तस्मिन् गन्धोदकधाराभरे वैरिणस्तव खान्ति सानं कुर्वन्ति 4) कइत्ति-कदा भविष्यति स दिवसः । आनन्दसुधारसप्रापणः आनन्दसुधारसपावनः पवित्रो वा भविष्यति प्रियमुखशशिचन्द्रिकायां यत्र जननयनचकोरयोः पारणकम् । 5) परगुणेत्यत्र परेषां गुणानां ग्रहणं स्वकीयदोषप्रकाशनं च । मधुवन्मधुराक्षराणि यत्र । एवंविधं हितं मितं भाषणं च । उपकारेण प्रतीकारो वैरिजनानाम् । वैरिणामप्युपकारकरणमित्यर्थः । एषा पद्धतिर्मानॊ मनोहरा सुजनानाम् । अन्योऽपि हि वैरिणां दोहेण प्रतीकारं करोति सुजनस्तूपकारेणेत्यर्थः ।
१निअहि A. २ पयडीयतोस A. ३ भाव-सहाव BEP. ४ ससिवयणिइ BP; ससिवयणीए A. ससिवयणिविन्भमि . ५ असिअ N. ६ भुमयहिं . ७ कउ A. ८ मोहिउज. A. ९ कइअहि %B . १० होइसइ BP. ११ पावणउ ACN. १२ चंदिमइ A. १३ नयणिचउरहं BP; नयणचउरह AODN.
१४ पारणओ ONS. १५ चचतुष्टयं E. १६ महु dropped in A; महुमहुरक्खरअमियभा० B. .१७ पडिकिओ N; पडिकउ F. १८ वेरिणहं E. १९ पद्धडिय BP.
www.jainelibrary.org
For Personal & Private Use Only
Jain Education International