________________
२१०
छन्दोऽनुशासनम् । चतुर्भिर्यथा
"तं तेत्तिउ बाहोहजलु, सिहिणतेरि वि न पत्तु । छिमिछिमिवि' गंड/लिहि, सिमिसिमिवि सिमिवि समत्तु ॥ २२.४ ॥
समैः पादैः सर्वसमा ॥ २३ ॥ तुल्यकलैश्चतुर्भिः पादैः सर्वसमा चतुष्पदी ॥ २३ ॥ तद्विशेषानाह
पचौ ध्रुवकम् ॥ २४ ॥ पञ्चमात्रचतुर्मात्रौ गणौ यस्य पादे तद् ध्रुवकम् । यथा
"जइ वि संखु न करि, तुं ध्रुवु मुणिउ हरि। जं विरहभीअइ, अणुसरिउ सिरिअइ ॥ २४.१ ॥
चौ दः शशाङ्कवदना ॥ २५॥ द्वौ चतुर्मात्रौ द्विमात्रश्चैकः शशाङ्कवदना । यथा
नवकुवलयनयण, ससंकवयण धण । कोमलकमलकर, उअ सरयसिरि किर ॥ २५.१ ॥
चपदाश्चातौ वा मारकृतिः ॥ २६ ॥ चतुर्मात्रपञ्चमात्रद्विमात्राः चतुर्मात्रद्वयत्रिमात्रौ वा मारकृतिः । यथा
"तुह मार मारकिदी, क वि एह नवल्लिअ ।। "दूरि स बालभल्लि, जं हिअँडइ सल्लिअ ॥ २६.१ ॥
षचदाश्चियं महानुभावा ॥ २७॥ षण्मात्रचतुर्मात्रद्विमात्रा वा चगणत्रयं वा यत्र सा महानुभावा । यथा
1) तं तेत्तिउ बाहोहेत्यत्र तत्तावद्वाप्पौधजलं स्तनान्तरे न प्राप्तम् । तप्तलोहाद्युपरि यदि जलबिन्दुः पतति तदा प्रथम छमिछमिशब्दं करोति पश्चात्समिसमीति कृत्वा शुष्यति । कपोलावपि विरहानलेन तप्तौ स्तोऽतस्तत्र समाप्तम् । इत्येतौ द्वावपि दोहको 'चूडल्लउ' 'बाहोहजलसिक्ती' मारचितौ । 2) जइ वि संखु नेत्यत्र हे राजन् यद्यपि शङ्खो न धृतः करे तथापि त्वं ध्रुवं निश्चितं ज्ञातो हरिर्विष्णुः। यद्विरहे भीतया श्रिया अनुसृतः आश्रितः। 3) नवकुवलयेत्यत्र नवकुवलयनयना शशाङ्कवदना प्रिया कोमलकमलकरा पश्य शरत्श्रीः शरलक्ष्मीः । किलेति - संभावनायाम् । 4) तुह मारेत्यत्र हे मार काम तव एषा नूतना कापि मारकृतिः । अपूर्वः कोऽप्ययं मारः इत्यर्थः । सा बाला एव भल्लिर्दूरे यद्यस्मात् कारणात् हृदये शल्यिता। अन्या भल्ली दूरस्था सती न शल्यकारिणीत्यपूर्वम् ।
१तित्तिउ E. २ सिहिणं नरिवि. ३ छिमिवि छिमिवि . ४गंडस्थलहिं CDNS. ५ सिमिसिमि सिमिवि समत्तु EP. ६ यत्र A. ७ तु Ns. ८ द्वौ चतुर्मात्रश्चैकः A. ९ कमल dropped in A. १०वहनवल्ली अ..११ दूर A. १२ सबाभल्लि N; सबलिभल्लिं . १३ हिअडइ OD.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org