SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । समे एकादश ओजे सप्तदश कुसुमायुधशेखरः । यथा "घोलिरनवपल्लवु परिफुल्लिङ, रेहइ असोअतरु । विरइउँ रम्म नाइ महुमासिण, कुसुमाउहसेहरु ।। २०.४० ।। एवं षट् ॥ २०.४० ॥ तथा समे द्वादश ओजे त्रयोदश उपदोहकः । यथा "महु कंतिण रणि मुक्कउ, एक्कु पहारु अमोहुँ । उअ दो हय हय चूरिउँ, संदणु सारहि जोहु ॥ २०.४१ ॥ समे द्वादश ओजे चतुर्दश दोहकः । यथा "पिअहु पहारिण इक्किण वि, सहि दो हया पडंति । संनद्धउ असारभडु, अन्नु तुरंगु न भंति ॥ २०.४२ ॥ प्रायोग्रहणात्संस्कृतेऽपि । यथा "मम तावन्मतमेत दिह, किमपि यदस्ति तदस्तु । रमणीभ्यो रमणीयतरं, अन्यत्किमपि न वस्तु ॥ २०.४३ ॥ ___ अत्र समपादान्ते गुरुद्वयमित्यानायः ॥ २०.४३ ॥ समे द्वादश ओजे पञ्चदश चन्द्रलेखिका । यथा "तुह विरहिं सा अइदुब्बली, धणे आवंडुरदेह । अहिमयरकिरणिहिं विक्खिविअ, चंदलेह जिम्व एह ॥ २०.४४ ॥ समे द्वादश ओजे षोडश सुतालिङ्गनम् । यथा "तुह चंडिण भुअदंडिण निवइ, धरमाणिण महिवलँउ । जलहिसुआलिंगणपहवसुहु, देउ जणणु कलउ ॥ २०.४५ ॥ .. 1) घोलिरनवपल्लवेत्यत्र अशोकतरुः राजते । कीदृशः। घोलनवपल्लवः । परि सामस्त्येन पुष्पितः । हुवोप्रेक्षते । मधुमासेन कुसुमायुधशेखरो विरचितो रम्यः। 2) मह कंतिणेत्यत्र हे सखि कान्तेन रमणेन । रणे संग्रामे । एकः अमोघः प्रहारो मुक्तो येन प्रहारेण द्वौ हतौ हयौ चूरितः स्यन्दनः सारथिर्योधश्च । 3) पियहु पहारिणेत्यत्र हे सखि प्रियस्य प्रहारेण एकेनापि द्वौ हतो पततः। सन्नद्धः भश्ववारभटः अन्यस्तुरङ्गः । नात्र भ्रान्तिः। 4) ममेत्यत्र मम तावदेतन्मतं अस्ति । अन्यदस्तुन वा । किम् । रमणीभ्यो रमणीयकं किमपि वस्तु नास्तीति फलितार्थः । 5) तुह विरहि इत्यत्र तव विरहे सा प्रिया मापाण्डरदेहातिदुर्बला। अहिमकरः सूर्यः तस्य किरणैर्विक्षिप्ता एषा चन्द्रलेखा पाण्डरदेहा भवति । किंच एतद्वत्तं पूर्वमागतमस्तीति । 6) तुह चंडिणेत्यत्र तव चण्डेन भुजदण्डेन हे नृपते धरमाणेन महीवलयं जलधेः सता लक्ष्मीः तस्याः आलिङ्गनप्रभवं सुखं देवो जनार्दनः कलयतु । भजत्विति यावत् । . १ परिफुल्लिओ N. २विरईओ A; विरइओ N; ३ रम्मउ BP. ४ मकओ Ns. ५ अमाहु N. ६ चुरिओ A; चूरिओ N. ७ इक्कण वि A. ८ संनद्धओ Ns. ९ असवारुभडु BEP; असवारभटु CD. १० अन.. ११ अत्र च स. F. १२ घण N. १३ आवंडरुदेह A. १४ वलओ DN. १५ पहषु P. १६ जणद्दण A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy