SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । व्यत्यय इति समे सप्ताद्याः शेडशान्ताः कला ओजे सैकाः सप्तदशान्ताः प्रत्येकं पूर्ववत्सुमनोरमादिसंज्ञाः चतुष्पद्यो भवन्ति । तत्र समे सप्तकलाः ओजे अष्टौ यत्र भवन्ति सा मनोरमा । यथा २०० "केआरावु, करि मोर मा । दूरि सगोरी, सुमणोरमा ॥ २०.१ ॥ समे सप्त ओजे नव पङ्कजम् । यथा "निअवि वयणु तहिं विब्भमपडे । विहिण खितु, द्रहि पंकेउ । २०.२ ॥ समे सप्त ओजे दश कुञ्जरः । यथा - " गज्जइ घणमाला, घणघडहड । नं मयैणनिवइणो, कुंजरघड ।। २०.३ ।। समे सप्त ओजे एकादश मदनातुरः । यथा - " खलिअक्खरडं वयणु, मुहु पंडरू । तुह अक्खइ सहि मणु, मयणाउंरु । २०.४ ॥ समे सप्त ओजे द्वादश भ्रमरावली । यथा - Jain Education International " ओ रणझणंत भ्रमइ, भमरावलि । यह गुणवलि, णं सामलि ॥ २०.५ ॥ समे सप्त ओजे त्रयोदश पङ्कजश्रीः । यथा - " तहि भुमयहि पडिछंदुलो, धणु मयणहु । नवपंकयसिरि सोअरी, तसु वयणुहु ॥ २०.६ ॥ । 1) केभारा इत्यत्र हे मयूर त्वं केकारखं मा कुरु । सा गौरी दूरे वर्तते । कीदृशी । अतिशयेन मनोरमा सुन्दरी । 2 ) निक्षवि वयणु इत्यत्र दृष्ट्वा वदनं तस्याः विभ्रमो भ्रूसमुद्भवो विलासस्तस्य पदम् । नमिवार्थे । विधिना पङ्कजं हदे क्षिप्तम् । तस्या मुखतुलां दधत् ब्रह्मणा जलाशये क्षिप्तमिति भावः । 3) गज्जइ घणमालेत्यत्र घनो निबिडो घडहड-शब्दविशेषो यस्याः सा घनमाला गर्जति । नमिवार्थे । इवोष्प्रेक्षते । मदननृपस्य कुञ्जरघटा । 4) खलिअक्खरउं इत्यत्र हे सखि वचनं स्खलिताक्षरं मुखं च पाण्डुरम् । उभयं कर्तृ मनः कर्म । भाख्याति । मनः कीदृशम् । मदनातुरम् । 5 ) [भ] रणरणतेत्यत्र हे सखि पश्य रणरणन्ती शब्दं कुर्वाणा भ्रमरावली भ्रमति । इवोत्प्रेक्षते । श्यामा मदनधनुषः गुणवल्ली । ज्या इति भावः । 6 ) तहि भुमयहि इत्यत्र तस्या भ्रुवोः प्रतिच्छन्दो धनुर्मदनस्य । तस्या वदनस्य सोदरा नवपङ्कजश्रीः । १ कला : dropped in 4. २ पओ N. ७ महय० BP. ८ महु B. ९ मयणांउर A. AB; तहि भुमयहिं P. ३ न D. ४ खेत्तु BP. ५ पंकओ ABN. ६ तं B. १० रणरणत K; तरुणझणंत 4. ११ तहिं भुमहिं For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy