________________
छन्दोऽनुशासनम् । ओजे एकादश समे त्रयोदश विभ्रमविलसितवदनम् । यथा
"कुइ धन्न जुआणउ, विअसिअदीहरनयणिएँ ।
माणिज्जइ तरुणिए, विन्भमविलसिअवयणिएँ ॥ १९.३६ ॥ ओजे एकादश समे चतुर्दश नवपुष्पन्धयम् । यथा
"सहि पंकोप्पनु वि, कमलु तं सलहिउँ बुहसइहिं ।
जं रसउद्बुसिअहिं, पिज्जइ नवफुल्लंधुअहिं ॥ १९.३७ ॥ ओजे एकादश समे पञ्चदश किन्नरमिथुनविलासः । यथा
"अविरहिअहं मुइअहं, हरिणहं जि रइसुहु सलीसए ।
पर एम्वइ केम्वइ, जहँ किन्नरमिहुणविलासए ॥ १९.३८ ॥ ओजे एकादश समे षोडश विद्याधरलीला । यथा
"मुद्धइ गिजंतरं, तुहुं कणरसायणु गीउ सुणि ।
जिण ओहामिज्जइ, विजाहरलीलागीइझुणि ॥ १९.३९ ॥ ओजे एकादश समे सप्तदश सारङ्गः । यथा
"भीरु वि चंदहिओ, वरि परिमुणिअनावं सारंगओ। सीहु न सलहिजई, जइ वि हु दलिअमत्तमायंगओ ॥ १९.४० ॥
एवं षट् ॥ १९.४०॥ तथा । ओजे द्वादश समे त्रयोदश कामिनीहासः । यथा- '
"मणहरु तुह मुहसरहु, रयणीअरविन्भमु धरइ। कामिणि हासँविलासु वि, जोण्हापसरहु अणुहर्रई ॥ १९.४१ ॥
1) कह धन्न इत्यत्र कोऽपि धन्यो युवा विकसितदीर्घनयनया तरुण्या मान्यते । कीदृश्याविभ्रमविलसितवदनया । तस्याः रूपोत्कर्षः। 2) सहि पंकोप्पनु वीत्यत्र हे सखि तत्कमलं बुधशतैः सलहिलं श्लाघितं यत् रसोद्भुषितैः पुष्पंधयैः पीयते । पङ्कोत्पन्नमिति निन्दा। 3) अविरहिअहं इत्यत्र भविरहितानां मुदितानां हरिणानामेव रतिसुखं श्लिष्यति भवतीति । परमेवमेव कथमपि यशः किन्नरमिथुनविलासे । दम्पत्योः प्रीत्युपरि तस्योपमानात् । 4)मुद्धइ गिजंतउं इत्यत्र मुग्धया गीयमानं त्वं कर्णरसायनं गीतं शृणु । येन गीतेन विद्याधरलीलागीतिः पराभूयते निराक्रियते इत्यर्थः। 5) भीरु वीत्यत्र भीरुरपि चन्द्रस्थितः वरः प्रधानः। कः। विख्यातनामा सारङ्गो हरिणः । परं सिंहो न श्लाध्यते यद्यपि दलितमत्तमातङ्गः। 6) मणहरु तुहेत्यत्र हे सुभगे तव मुखसरोरुहं रजनीकरविभ्रमं धरति । हे कामिनि तव हास्यं ज्योत्स्नाप्रसरं अनुहरति तच्छीलं भजतीत्यर्थः।
१धण्णु A. १९.३६ is dropped in D. २ नयणीए AS. ३ वयणीए As. ४ पंकुप्पनु वि AB. ५ लसहिओ N. ६ उद्धृसिएहिं S. ७ कीम्बइ ABDN; काम्वइ s. ८ नमु . ९ कन्न AODNP. १० हिउ
गउ-गउ Bk. ११ नामु AC; नाउं P; नाम्बु DS. १२ सलहिजउ P. १३ मणहर . १४ तुहु ACDN. • १५ सररुह AN. १६ हासुवि० P. १७ पसरह P; पसरहो B. १८ अणुसरहु A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org