SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम्। ओजे नव समे द्वादश माङ्गलिका । यथा ___ "प्रिअमहुसंगमि, उअ मंगलिअई करइं। किंसुअरूविण, वणसिरि घट्टई धरइ ॥ १९.२२ ॥ ओजे नव समे त्रयोदश अभिसारिका । यथा __"काली रत्तडी, घणिहिं नहंगणु रुद्घउ । तो वि न वट्टहिं, अहिसारिअजणु खुर्द्धउ ॥ १९.२३ ॥ ओजे नव समे चतुर्दश कुसुमनिरन्तरः । यथा "सिद्धत्थ पुलय, कुसुम निरन्तरु हसिउ सिउ। ... नवदइआगमि, अंगि जि मंगलु धणइ किउँ ॥ १९.२४ ॥ ओजे नव समे पञ्चदश मदनोदकम् । यथा "घणरव दूसहा, दूहवइ मयणोदउ हिअउ । पिअदूरहिआ, पवसिअरमणिअणु कह जिअउ ।। १९.२५ ॥ ओजे नव समे षोडश चन्द्रोद्दयोतः । यथा "कोइलकलरवु, चंदणु चंदुजोअविलासु । वल्लहसंगमि, अमयरसु विरहि जलिउ हुआसु ॥ १९.२६ ॥ ओजे नव समे सप्तदश रत्नावली । यथा "मालइमालहिं, अलि सहहिं नवमयरंदसइँण्ह । 'नं रयणावलि, नीलमय पाउसदइईण दिण्ण ॥ १९.२७ ॥ एवमष्ट ॥ १९.२७॥ तथा । ओजे दश समे एकादश भ्रूवक्रणकम् । यथा "रेहइ तरुणिअणु, भूवंकणचंगउ । आणावइ नाइ, तिहुअणजेई अंगउ ॥ १९.२८ ॥ 1) प्रियमहुसंगमीत्यत्र उअत्ति-पश्य । वनश्रीः प्रियो वल्लभो यो मधुर्वसन्तस्तस्य संगमे संबन्धे माङ्गलिकानि करोति । किंशुकरूपेण घट्टयुगलं दधाति । घटो घाटडीति प्रसिद्धा। 2) काली रत्तेत्यत्र रात्रिः कृष्णा तथा गगनाङ्गणं चनैः रुद्रं तथापि मार्गे अभिसारिकाजनो न क्षुब्धः । भीत्यभाव इत्यर्थः । 3) सिद्धत्थेत्यत्र पुलका एव सिद्धार्थाः । सितं हसितं कुसुमानि । निरन्तरं नवदयितसंगमे अङ्गे मङ्गलं भार्यया कृतम् । 4) घणरव दूसहेत्यत्र घनानां रवा दुःसहाः । दुनोति मदनोदयो हृदयम् । प्रियदूरस्थितः दूरस्थितधनिकः । प्रोषितानां रमणीजनः कथं जीवति । 5) कोइलकलेत्यत्र कोकिलकलरवः चन्दनं चन्द्रोद्योतविलासः एतान्येव वल्लभसंगमे अमृतरसः । विरहे सति तान्येव ज्वलितो हुताशः। 6) मालइमालहिं इत्यत्र मालतीमालायां अलयः शोभन्ते । कीदृशा अलयः । नवमकरन्दसतृष्णाः । किमित्यध्याहारः । प्रावृड्-दयितेन दत्ता नीलेन्द्रमयी रत्नावलीव । णं इति उपमानार्थः। 7) रेहइ इत्यत्र राजते तरुणीजनः भ्रूचके चङ्गः । इव उत्प्रेक्षते । त्रिभुवनजयी अनङ्गः आज्ञापयति जनानामिति शेषः । • १ ओअ NS. २ घट्टय P. ३ रुद्धउं D; रुद्धओ N. ४ खुद्दओ N. ५ किसउ D. ६ कहि B.७ सथण्ह P. ८ णं K; तं E; न N. ९ पाउसदयइण B; पाओसदइसदा s. १० दिन्न A. ११ भ्रूचक्र० DEN; १२ तरुणिअणू . १३ भूचंकणचंगओ DN. -१४ जयि A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy