SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ . षष्ठोऽध्यायः। ओजे सप्त समे दश मलणकम् । यथा "कहिं हंसिहि, तल्लोव्वेल्लणउं । जैउ दीसइ, गउ तहिं मल्हणउं ॥ १९.३ ।। ओजे सप्त समे एकादश सुभगविलासः । यथा "पइं विणु तहिं, सुहय विलासु कवणु। विणु चंदई, मुहु जामिणिहिं कृवैणु ॥ १९.४ ॥ मोजे सप्त समे द्वादश केसरम् । यथा "मेल्लि माणु, वल्लहिं करि अणुराउ । ओ उड्डिउ, केसरकुसुमपराउ ॥ १९.५ ॥ ओजे सप्त समे त्रयोदश रावणहस्तकः । यथा "लेहि वीण, करि धरि रावणहत्थेउ । जिणमज्जणि, सुरहिं दिण्णु सम्वहत्थउ ॥ १९.६ ॥ ओजे सप्त समे चतुर्दश सिंहविजृम्भितम् । यथा "छुहखामु वि, जं मयजूहु न तिणु चरइ । तं अज्ज वि, सीहविअंभिउ विप्फुरइ ॥ १९.७ ॥ ओजे सप्त समे पञ्चदश मकरन्दिका । यथा__. "कुसुमंतरि, नवि लग्गइ अलि अवनिद्दिअइ।. आसत्तउ, मालइहि बहलमयरंदिअहि ॥ १९.८ ॥ . ओजे सप्त समे षोडश मधुकरविलसितम् । यथा 1) कहिं हंसिहिं इत्यत्र व हंस्याःतलं सरसी तन्त्रोद्वेल्लनकं क्रीडनकम् । क्वापि नेत्यर्थः । यदि तस्या गतं सामनं मल्हणकं सविलासं दृश्यते तदेत्यर्थः। 2) पई विणु तहिमित्यत्र हे सुभग त्वया विना कलाविलास: कवणु कीदृशः। न किमपीत्यर्थः । चन्द्रेण विना यथा यामिन्याः मुखं कृपणं दीनं भवतीत्यर्थः। 3) मेल्हि माणु इत्यत्र हे सखि मानं मुञ्च वल्लभेऽनुरागं कुरु । ओत्ति - पश्य । केसरो वृक्षविशेषस्तस्य परागः। उड्डिओत्ति - प्रसृतः। व्याप्त इत्यर्थः । वसन्तागमसूचनमिति । वसन्ते मदनातुरा भविष्यसि अतएव भर्तारं मानयेत्यर्थः । 4) लेहि वीण करीत्यत्र रावणहस्तकः आतोद्यं यत् पुरा दशास्येनाष्टापदे जिनेन्द्राणामग्रे स्वहस्तनसामुत्पाठ्य वादितं त्रितन्त्रीरूपं वृद्धपंकं (?) वाद्यम् । वीणां लात्वा करे धृत्वा रावणहस्तकं जिनमज्जनसमये सुरैर्गानं कृतमित्यध्याहारः। कथम् । दत्तसम्मुखहस्तकं यथा भवति तथा। 5) छुहखामु वि इत्यत्र क्षुत्क्षाममपि यन्मृगयूथं तृणं न चरति तसिंहविजृम्भितमद्यापि स्फुरति । 6) कुसुमंतरीत्यत्र अलिरपनिद्रे विकसिते कुसुमान्तरे न लगति बहलमकरन्दिकायां मालत्यामासक्तः सन् । १ जइ P. २ चंदय P. ३ कवणु CNS. ४ मेल्हि K. ५ उद्दिओ N. ६ पराओ N. ७:हत्थओ BOD. ८ सीह विअंभिय A. सीसीहवि० N. ९ विफुरइ BD. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy