________________
छन्दोऽनुशासनम् । तत्रान्तरसमाः प्राह.... चतुष्पदी कला ओजे सप्ताद्याः षोडशान्ताः समे प्रत्येकं सैकाः सप्तदशान्ताः 'चम्पककुसुम-सामुद्रक-मल्हणक-सुभगविलास-केसर-रावणहस्तक-सिंहविजम्भित-मकरन्दिका-मधुकरविलसित-चम्पककुसुमावत्ता (१०)। मणिरत्नप्रभा-कुङ्कुमतिलक-चम्पकशेखर-क्रीडनक-बकुलामोद-मन्मथतिलक-मालाविलसित-पुण्यामलक-नवकुसुमितपल्लवाः (९)।मलयमारुतमदनावास-माङ्गलिका-अभिसारिका-कुसुमनिरन्तर-मदनोदक-चन्द्रोद्योत-रत्नावल्यः (८)।भ्रूवक्रणक-मुक्ताफलमाला-कोकिलावली-मधुकरवृन्द. केतकीकुसुम-नवविद्युन्माला-त्रिवलीतरङ्गकाणि (७)। अरविन्दक-विभ्रमविलसितवदन-नवपुष्पन्धय-किन्नरमिथुनविलास-विद्याधरलीला-सारङ्गाः . (६)।कामिनीहास-अपदोहक-प्रेमविलास-काञ्चनमाला-जलधरविलसिताः (५)। अभिनवमृगाङ्कलेखा-सहकारकुसुममञ्जरी-कामिनीक्रीडनक-कामिनीकङ्कणहस्तकाः (४)। मुखपालनतिलक-वसन्तलेखा-मधुरालापिनीहस्ताः (३)। मुखपति-कुसुमलतागृहे (२)। रत्नमाला' (१)। इति पञ्चपञ्चाशर्तोदा ॥ १९॥
ओजयोः सप्ताद्याः पोडशान्ताः कलाः समयोस्ता एवैकाधिकाद्याः सप्तदशान्ताः प्रत्येकं यत्र भवन्ति सा चतुष्पदी चम्पककुसुमादिसंज्ञा । अयमर्थः-ओजे सप्त कलाः समे सैकाद्या अष्टाद्याः सप्तदशान्ता यत्र भवन्ति सा चम्पककुसुमादिभेदेन दशविधा । एवमोजेष्टकलाः समे सैकाद्या नवाद्याः सप्तदशान्ता यत्र भवन्ति सा मणिरत्नप्रभादिभेदेन नवविधा । तथा ओजे नव समे सैकाद्याः दशाद्याः सप्तदशान्ता यत्र भवन्ति सा चतुष्पदी मलयमारुतादिभेदेनाष्टंविधा । यावदोजे पोडश समे सप्तदश यत्र भवन्ति सा रत्नमालासंज्ञा चतुष्पदी । एवं पञ्चपञ्चाशञ्चतुष्पदीभेदाः । तत्रौजे सप्त समेष्टौ चम्पककुसुमम् । यथा
"अंगचंगिम, जइ गोरंगिहिं ।
चंपयकुसुम, ता कह अग्घहिं ॥ १९.१ ॥ ओजे सप्त समे नव सामुद्रकम् । यथा
"जइ बोल्लइ, धण उक्कंठिअ ।
सा मुद्दउ, मुहु कलयंठिअ । १९.२ ॥ .1) अंगचंगिमेत्यत्र यदि गौराङ्गया अङ्गचङ्गिमा स्यात्तदा चम्पककुसुमानि कथं अर्ध्यन्ते । 2) जह बोल्लइ इत्यत्र यदि सा उत्कण्ठिता सती धन्या जल्पति तदा कलकण्ठी मुखं मुद्यतु ।
१चतुष्पदी dropped in BRFP. २ नव dropped in H. ३ रत्नमाला चेति पञ्च• BFGH. ४ भेदाः ABONP. ५ सा अन्तरसमा च० P. ६ अष्टधा A.७ अघिहिं E. अग्यहि P. ८ घण Ns... ;
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org