SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ षष्ठोऽध्यायः। तृतीयषष्ठयोः पादयोः दशादयो मात्राः एकैकवृद्धथा यावत् सप्तदश, अन्येषु चतुषु पादेषु सप्तैव यत्र भवन्ति, सा षट्पदजाति म षट्पदी भवति । सा च दशादीनां सप्तदशान्तानामष्टविधत्वादष्टधा । तत्राद्या यथा "इअ नारिहिं, रससारिहिं, मुहपरिमललुद्धउ । ढुरु ढोल्लइ, न हु मेल्लइ, छप्पर्यंगणु मुद्धउ ॥ १५.१ ॥ __एवं शेषभेदेखूदाहार्यम् ॥१५.१॥ अष्टोजातिः॥ १६॥ . तृतीयषष्ठयोः पादयोर्दशादिसप्तदशान्ताः कलाः शेषेष्वष्टौ चेत्तदोपजातिर्नाम षट्पदी । पूर्ववदष्टधा । तत्राद्या यथा "इअ उवजाइहिं, सुरहिअवाइहिं, गुंजिरघणछप्पउ । उव वण सारउ, केअइफारउ, कर्स नवि रइ अप्पउ ॥ १६.१ ॥ एवं शेषभेदेषूदाहार्यम् ॥ १६.१ ॥ नवावजातिः॥१७॥ तृतीयषष्ठयोः पादयोर्दशादिसप्तदशान्ताः कलाः शेषेषु नव चेत्तदा अवजातिर्नाम षट्पदी । पूर्ववदष्टधा । तत्राद्या यथा ___ "इअ वणराइहिं, अहिणवजाइहिं, छप्पउ परिभमइ । मालइरत्तउ, महुरसमत्तउ, जलयागमसमइ ॥ १७.१ ॥ एवं शेषभेदेषूदाहार्यम् । एवं षट्पदजात्युपजात्यवजातीनां प्रत्येकमष्टविधत्वाचतुविंशतिधा षट्पदी ॥ १७.१ ॥ चतुष्पदी वस्तुकं वान्तरसमासमा संकीर्णा सर्वसमा च ॥१८॥ वस्तुकमिति चतुष्पद्या एव नामान्तरम् । "तुल्यसमपादा तुल्यविषमपादा च अन्तरेण व्यवधानेन समान्तरसमा । तुल्यप्रथमद्वितीयपादा तुल्यतृतीयचतुर्थपादा चार्ध सममस्या अर्धसमा । व्यामिश्रा सङ्कीर्णा । तुल्यचतुष्पादा सर्वसमा ॥१८॥ 1) इ. नारिहिं इत्यत्र एष रससारायाः नार्याः मुखपरिमललुब्धः सन् मुग्धः षट्पदगणः पार्श्वन मुञ्चति । हुनिश्चितम् । 2) इन उवजाइहिं इत्यत्र गुञ्जद्बहुषट्पदं सारं प्रधानं केतकीस्फारं एतद्वनं कस्य रई रतिं नार्पयति । काभिः । उपजातिभिः समीपस्थजातिभिः । कथंभूताभिः । सुरभितवाताभिः। 3)इम वणराइहिमित्यत्र एष षट्पदोऽभिनवजातिषु वनराजिषु परिभ्रमति । क्व। जलदागमसमये मेघसमये । कीदृशः। मालत्या रक्तः। पुनः कीदृग् । मधुरसमत्तः। 4) तुल्यसमपादेति-तुल्यौ सदृशौ समौ द्वितीयतुर्यों पादौ यस्याः विषमौ प्रथमतृतीयौ यस्याः इति लक्षणेनान्तरं व्यवधानं भवति। १ परिमलु०.२ दुर B; दुरु DN. ३ मिल्लइ E. ४ गणE; गुण A. ५ अष्टौ पजातिः A; अष्टौ उपजातिः N. ६ कुसु D; . . . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy