SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । दैश्चपदं पचदं षदतं चातौ वा ॥ ८ ॥ टैरित्येकादशभिः कलाभिः पादे चतुर्मात्रपञ्चमात्रद्विमात्राः पञ्च मात्रचतुर्मात्राद्विमात्राः षण्मात्रद्विमात्र त्रिमात्राश्चतुर्मात्रद्वयत्रिमात्रौ वा गणा भवन्ति ॥ ८ ॥ वैश्चपतं पचदं पादौ चिर्वा ॥ ९ ॥ ટ ठैरिति द्वादशभिः कलाभिः पादे चतुर्मात्रपञ्च मात्रत्रिमात्राः षण्मात्रचतुर्मात्राद्विमात्राः पगणद्वयद्विमात्रौ चतुर्मात्रत्रयं वा गणा भवन्ति ॥ ९ ॥ डैः पातौ चापौ षचतं वा ॥ १० ॥ डैरिति त्रयोदशभिः कलाभिः पादे पञ्चमात्रद्वयत्रिमात्रौ चतुर्मात्रद्वयपश्चमात्रौ षण्मात्रचतुर्मात्रात्रिमात्रा वा गणा भवन्ति ।। १० ।। ढैश्विदौ षचचं वा ॥ ११ ॥ ढैरिति चतुर्दशभिः कलाभिः पादे चतुर्मात्रत्रयद्विमात्रौ पचचा वा गणा भवन्ति ॥ ११ ॥ चितौ पर्वा ॥ १२॥ णैरिति पञ्चदशभिः कलाभिः पादे चतुर्मात्रत्रयत्रिमात्रौ त्रयो वा पञ्चमात्रा गणा भवन्ति ॥ १२ ॥ तैः पचादं चीर्वा ॥ १३ ॥ तैरिति षोडशभिः कलाभिः पादे षण्मात्रचतुर्मात्रद्वयद्विमात्राश्चत्वारो वा चतुर्मात्रा गणा भवन्ति ॥ १३ ॥ थैः षचातं चिपौ वा ॥ १४ ॥ थैरिति सप्तदशभिः कलाभिः पादे षण्मात्रचतुर्मात्रद्वयत्रिमात्राश्चतुर्मात्रत्रयपश्चमात्रौ वा गणा भवन्ति ॥ १४ ॥ एवं च सप्तादिसप्तदशान्तकलौघेभ्यस्त्रिभिरतुल्यैः” तुल्यातुल्यैः तुल्यैर्बार्थे पादा यत्र भवन्ति सा विदग्धगोष्ठीगरिष्ठा षट्पदी ध्रुवा । षट्पदीषु चाद्यस्य पादस्य द्वितीयेन तृतीयस्य षष्ठेन चतुर्थस्य पञ्चमेनानुप्रासः कर्तव्यः । चतुष्पदीष्वाद्यस्य द्वितीयेन तृतीयस्य चतुर्थेन । अन्तरसमासु सङ्कीर्णासु च प्रायेण द्वितीयस्य चतुर्थेनानुप्रासः कार्यः । तत्र षट्पदीभेदानाह - तृतीय षष्ठयोर्दशादि सप्तदशान्ताः कलाः शेषेषु सप्त षट्पदी षट्पदजातिरष्टधा ॥ १५ ॥ 1) त्रिभिरतुल्यैरिति-तुल्यकलालक्षणं वा अर्धसमं एकः पादोऽपरं द्वयं चान्यत् । अथवा सर्वैरप्यन्यैः । १ कार्य: A. २ कर्तव्यः A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy