SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ अथ षष्ठोऽध्यायः । सन्ध्यादौ कडवकान्ते च ध्रुवं स्यादिति ध्रुवा ध्रुवकं घत्ता वा ॥ १ ॥ कडवकसमूहात्मकः सन्धिस्तस्यादौ । चतुर्भिः पडिकाद्यैश्छन्दोभिः कडवकम् । तस्यान्ते ध्रुवं निश्चितं स्यादिति ध्रुवा, ध्रुवकं, घत्ता चेति संज्ञान्तरम् ॥ १ ॥ सा त्रेधा षट्पदी चतुष्पदी द्विपदी च ॥ २ ॥ सेति वा ॥ २ ॥ कडवकान्ते प्रारब्धार्थोपसंहारे आद्ये छड्डणिका च " ॥ ३ ॥ प्रारब्धस्य प्रकरणायातस्यार्थस्य कडवकान्ते भङ्गयन्तरेणाभिधाने षट्पदीचतुष्पद्यावेव छड्डणिकासंज्ञे । न केवलं ध्रुवादिसंज्ञे छड्डणिकासंज्ञे चेति चार्थः ॥ ३ ॥ षट्पदीचतुष्पदीध्रुवयोश्च सप्तकलादयः सप्तदशकलान्ताः पादा भवन्तीति तेषु गणनियममाह - ध्रुवायां छैः कलाभिः पादे चतौ पदौ वा ॥ ४ ॥ ध्रुवायां छैरिति सप्तभिः कलाभिः पादे चतुर्मात्रत्रिमात्रौ पञ्चमात्रद्विमात्रौ वा गणौ भवतः ॥ ४ ॥ जैः पतौ षदौ चौ वा ॥ ५ ॥ जैरित्यष्टभिः कलाभिः पादे पञ्चमात्रत्रिमात्रौ पण्मात्रद्विमात्रौ द्वौ वा चतुर्मात्रौ • गुणौ भवतः ॥ ५ ॥ झैः षतौ तिः पचौ वा ॥ ६ ॥ झैरिति नवभिः कलाभिः पादे षण्मात्रत्रिमात्रौ त्रिमात्रत्रयं पञ्चमात्रचतुर्मात्रौ वा गणौ भवतः ॥ ६ ॥ नैश्चादौ पचौ पौ वा ॥ ७ ॥ जैरिति दशभिः कलाभिः पादे चतुर्मात्रद्वयद्विमात्रौ षण्मात्रचतुर्मात्रौ द्वौ वा पञ्चमात्र गणौ भवतः ॥ ७ ॥ अथ षष्ठाध्यायस्य पर्यायाः प्रारभ्यन्ते । 1) आद्ये छडणिका चेत्यत्र प्रथमे षट्पदीचतुष्पद्यौ [छड्डणिका ] संज्ञे । १ पद्धटिकाद्यैः P. २ वेति BON. ३ भवन्ति तेषु P. ४ पञ्च मात्रौ वा गणौ ० A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy