________________
१८५
पञ्चमोऽध्यायः। षचताः षचचा अमरम् ॥ ३८॥ ओजे षण्मात्रचतुर्मात्रत्रिमात्राः समे षण्मात्र एकश्चतुर्मात्रौ द्वौ चेत्तदा अमरं धवलम् । यथा
"इंदडे तुडं गुणि अहिअउ, सग्गु वि पहु' मई वाहिअ ।
अमरविलासिणिगीअए, तुह पर कित्ति निसामिए ॥ ३८.१ ॥ आद्ययोः षची अन्त्ययोश्चः सर्वत्रान्ते तो दो वा मङ्गलम् ॥ ३९॥
आद्ययोः प्रथमद्वितीययोः पादयोः प्रत्येकं पगणश्चगणत्रयं च, अन्त्ययोस्तृतीय- " चतुर्थयोः प्रत्येकं चगणपञ्चकं सर्वपादेषु चान्ते त्रिमात्रो द्विमात्रो वा चेत्तदा मङ्गलार्थसंबद्धत्वात् मङ्गलम् । यथा
"तुह असिलहिहिं नरवइ मंगलकारणि,
वित्थारिअ निम्मलयर सत्थिअधोरणि । संगररंगि विवाहमहूसवि जयलच्छिहिं, द्वारिअमयगलकुंभत्थलमोत्तिअँगुच्छिहिं ॥ ३९.१ ॥ उत्साहादिना येनैव धवलमङ्गलभाषांगाने
तन्नामाद्ये धवलमङ्गले ॥४०॥ .. उत्साहादीत्यादिग्रहणात् प्रक्रान्तानां रासावलयादीनां, पूर्वोक्तानां हेलादीनां, वक्ष्यमाणानां दोहकादीनां च ग्रहणम् । "तन्नामाघे इति उत्साहादिनामपूर्वके । यथाउत्साहधवलं वदनधवलं हेलाधवलं दोहकधवलं चेति । एवं मङ्गलेऽपि उत्साहमङ्गलादि वाच्यम् । यदाहुः
उत्साहहेलावदनाडिलाद्यैर्, यद् गीयते मङ्गलवाचि किञ्चित् । "तद्रूपकाणामभिधानपूर्व, छन्दोविदो मङ्गलमामनन्ति ॥ ४०.१ ॥ तैरेव धवलैव्याजात् पुरुषः स्तूयते यदा ॥
तद्वदेव तदानेको धवलोऽप्यभिधीयते ॥ ४०.२॥
1) इंद्हु तुहुं इत्यत्र इन्द्रात्त्वं गुणैरधिकः स्वर्गस्यापि प्रभुस्त्वं मया दृष्टः यस्मादमरविलासिनीगीतके . तव परा प्रकृष्टा कीर्तिः श्रूयते । एतावता राज्ञोऽतिशयो द्योतितोऽमरविलासिनीभिस्त्वं गीयसे। 2) तुह
मसिलद्विहिं इत्यत्र हे नरपते तव खड्गयष्ट्या मङ्गलनिमित्तं निर्मलस्वस्तिकधोरणी विस्तारिता संगरमण्डपे । कैादारितमदकलकुम्भस्थलमौक्तिकगुच्छैः । समूहैरित्यर्थः । कस्मिन्सति । विजयलक्ष्म्याः विवाहमहोत्सवे सति । 3) तमामाये इत्यत्र धवलमङ्गलेति नामद्वयम्। 4) तद्रूपकाणामित्यत्र उत्साहादिरूपकाणामभिधानपूर्वक एव । तैरेवेति अत्र उत्साहादिभिरेव । तद्वदेवेत्यत्र तद्रूपकाणामभिधानपूर्वक एव ।
. १ अमरधवलं A. २ इंदह P. ३ सग्गहु र (2) ४ चाहिअउ BCD. ५निसामिइए P. ६ मंगलकारिणि ABS. ७ मोत्तियगोच्छिहिं P. ८ भाषागीते A. ९ दोहदीनाम् A. १० तद्रूपकनामभि. A. ११ मङ्गलव्या• B.
२४ छन्दो.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org