________________
१८२
छन्दोऽनुशासनम् षचचाद्दो वदनकम् ॥ २८॥ षचचेभ्यः परो द्विमात्रश्चेत्तदा वदनकम् । यथा"अन्ज वि नयण न गेण्हई तरलिम, अज्ज वि वय] न मेल्लई भोलिम । अज वि थणहरु भरु न पडिच्छइ, तुवि मुद्धहें दंसणि जगु मुज्झई ॥ २८.१ ॥ केचित्समचतुष्पदीषु षचचदाः संकुलकमिति पठन्ति । तदत्रैवान्तर्भूतम् ॥२८.१ ।।
त उपवदनकम् ॥ २९॥ षचचेभ्यः परस्त्रिमात्रश्चेत्तदोपवदनकम् ॥ यथा
"आमूलु वि बहुपंकिण संवलिअ, सव्ववारपडिबोहसोहरहिअ । कंटयसयसंसेविअ जलसयण, जिणउववयणु न सोहहि कमलवण ॥ २९.१ ॥
ते यमितेऽन्तेऽडिला ॥ ३०॥ ते वदनकोपवदनके चतुर्णा पादानां द्वयोर्द्वयोर्वान्ते यमकिते सत्यडिला । तत्र. चतुर्णा यथा
"नवघणर्भमभमंतसारंगह, कुंजकुसुमगुंजिरसारंगह ।
सुंहविलसंतअडिलसारंगह, लीलावणहं तरुणि सारं गह ॥ ३०.१॥ द्वयोर्द्वयोर्यथा
"जहिं छिज्जहिं नरसीस भुअग्गल, तहु नरयहु जा दारभुअग्गल । सा मई सुअणहं कह पारद्धिअ, जं निसुणंत बुद्ध पारद्धिअ ॥ ३०.२ ॥
__ चतुर्णा यमके मडिलेत्यन्ये ॥ ३०.२ ॥ पिदावुत्थकः ॥ ३१॥ पगणत्रयं द्विमात्रश्चान्ते यमिते उत्थकः । अवस्थितक इत्यन्ये । यथा
1) अज्ज वि नयणेत्यत्र । अद्यापि नयनं चञ्चलत्वं न गृह्णाति । अद्यापि वदनं मुञ्चति न मुग्धत्वम् । स्तनभरो भारं न प्रतीक्षते नाङ्गीकरोति । स्तनभर इत्यत्र भरशब्दः शोभार्थोऽन्यथा पौनरुक्त्यं स्यात् । पीनौ न भवत इति भावः । तथापि मुग्धाया दर्शनेन जगन्मुह्यति । 2) आमूलु वि इत्यत्र । आमूलादपि बहुपङ्केन संवलितं सर्ववारं प्रतिबोधो विकासस्तच्छोभारहितं कण्टकशतेन सेवितं जलशयनं जिनस्य उपवदनं मुखसमीपे कमलवनं न शोभते । तद्धि निष्पत लोकानां सर्वदा प्रतिबोधकं निःकण्टकं अजडशयनं च। 3) नवघणभमभमंतेत्यत्र नवघनस्य नवीनमेघस्य भ्रमेण भ्रमन्तः सारंगा यत्र । सारंगशब्देन मयूराश्चातका वा । कविसमये श्यामनीलयोरैक्यम् । कुलेषु वृक्षावृतस्थानेषु यानि कुसुमानि तेषु शब्दायमानाः सारंगा भ्रमरा यत्र तेषां सुखेन विलसन्तो अटिं लान्तीत्यटिला भ्रमणशीलास्सारंगा हस्तिनो यत्र मृगा वा येषु । तेषां लीलावनानां हे तरुणि सारं गृहाणेति भावः। 4) जहिं छिजहिं नरसीसेत्यत्र यत्र छिद्यन्ते नराणां शीर्षाणि भुजार्गलाः तस्य नरकस्य या द्वारभुअग्गला भोगल इति प्रसिद्धा सा मया सुजनानां अग्रे प्रारब्धा कथा । यां शृण्वन्तः पापर्द्धिका अपि बुद्धाः यत्र परमाधार्मिकर्मस्तकादीनि विद्यन्ते(?) तन्नरककथा प्रारब्धेति भावः।
www
५
१ नयणु E. २ गिण्हइE. ३ वयण A. ४ मिल्लइ E. ५ मुद्धिहिं E; मुद्धाहं ACDN. ६ मुच्छइ A. ७ संकुलमिति A. ८ आमुलुवि N. ९ नवघणभमत्तमंत० A. १० मुह. NS. ११ तेहु N. १२ निसुणंतं NS १३ त्येके A. १४ अवस्थक D.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org