SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ १६८ छन्दोऽनुशासनम्। विअसिअरत्तासोअलए, केसरकुसुमामोअमए । पेप्फुल्लिअमायंदवणे, घणघोलिरदक्षिणपवणे ॥ इअ एरिसंमि चेत्तए जस्स न पासंमि अत्थि पिअमाणुसं । सो कह जिअइ वयंसिए विद्धो मयरद्धयस्स भल्लिाहिं ॥ ८९.१ ॥ गाथस्याद्यार्द्ध समैश्चैर्गात् प्राग्वृद्धं गस्य ते पादः समशीर्षकम् ॥१०॥ "गाथस्य प्रथमार्द्धमन्त्याद्गुरोरर्वाक् समैश्चगणैर्वृद्धमन्त्यस्य च गुरोः स्थाने ते त्रिमात्रे सति पादश्चेद्भवति तदा तादृशैश्चतुर्भिः पादैः समशीर्षकम् । यथा "सरसयरसुरहिसुस्सायतरुणमायंदमउलमंजरिदलोहकवलणकसायसंसुद्धकंठकलयंठिनि___अरकंठोच्छलंतपंचमपलाववोल्लालयंमि रुंदारविंदमयरंदबिंदुसंदोहपाणसाणंदभमर निउरेबबहलझंकारमुहलिउजाणचारुलच्छीए तिहुँअणमणहरे, दक्षिणैसमुद्दकल्लोलमालिआतरुंगसंगनिव्वविअमलयमारुअझडप्पहल्लंतविविहबहुवेल्लिगहणघणकुसुमगोच्छउच्छलिअपउरपिंजरपरायपडिहत्थदहदिसौंचक्कदंसणुप्पण पिअयमाभरणमिलिअमुच्छापहारनिवडंतपहिअसंघायरुद्धमग्गंतरदूसंचरधरे । पप्फुडिअसणकिंसुअसमूहकणिआरकुंजवरकंचणारकेसरलवंगचंपयपिअंगुमल्ली महल्लमाहविविआणकंकेल्लितिलयकुरुंबयपिआलपुन्नागनागकेसरसुवण्णकेअइकुडंग पाडलतमालनोमालिउल्लपसरंतपरमपरिमलथवक्कमहमहिअसमत्तवणंतरे, 1) गाथस्य प्रथमार्द्धमित्यत्र चयोर्गाथः । गाथैव पूर्वार्द्धऽन्त्यगात्प्राक् चगणद्वयस्य वृद्धौ गाथः (१.११)। समैरष्ट-दशादिभिर्न सप्त-नवादिभिः। 2) सरसयरसुरहीत्यत्र । एवंविधे वसन्ते मा वच्चेति.मा याहीति क्रियासंबन्धः । सरसतरा सुस्वादुः सा चासौ तरुणमाकन्दमुकुलितमञ्जरी तस्या दलौघः तस्य कवलनं तेन कषायितः संशद्धः कण्ठो यासां कलकण्ठ्यस्तासां निकरः तस्य कण्ठात् उच्छलत्पञ्चमस्वराणां बोल्लालमित्ति बोल्लाः शब्दा. स्तद्वति, रुन्दानि विपुलानि यान्यरविन्दानि तेषां मकरन्दास्तेषां बिन्दवस्तेषां संदोहस्तस्य पानेन सानन्दं यत् भ्रमरनिकरम्बं तस्य बहला झंकारास्तैर्मुखरिता उद्यानस्य चार्वी लक्ष्मीर्यत्र, त्रिभुवनजनमनोहरे, दक्षिणसमुद्रः कल्लोलमालिकया सह तरुणो नवो यः संगस्तेन निर्वापितः शीतीकृतः स चासौ मलयवायुः तेन शीघ्र हल्लन्तकम्पायमानाः विविधा नानाप्रकारा बह्वयो भूयस्यो या वल्यस्तासां वनं गहनं तस्य घनकुसुमगुच्छात् उच्छलितप्रचुरपिञ्जरपीतपरागस्तेन व्याप्तं यद्दशदिक्चक्रं तद्दर्शनादुत्पन्नं प्रियतमकान्तास्मरणं तेन मिलितः प्राप्तो यो मूर्छाप्रहारस्तेन निपतन्तो ये पथिकास्तेषां सार्थः तेन रुद्धमार्गान्तरेण दुःसंचरः संकीर्णभावः तस्य धरे धारके। प्रकर्षेण पुष्पिताः सघना निबिडा ये किंशुकवनमालिकान्ता वृक्षास्तेषां उल्लः आर्द्रः प्रसरन् परिमलो येषु ते. एवंविधाः स्तबका गुच्छकास्तैः महमहिअत्ति सुगन्धीभूतं समस्तवनान्तरं यत्र।मा वच्च हे कान्त इमां मां त्यक्त्वा । मां कीदृशीं मदनपीडिताम् । कीदृशे वसन्ते । तरुणीसार्थे चर्चरीविनोदेन सह स्पर्धया नाट्यो यो दण्डाभिघातशब्दस्तदन्तराले तालानुलग्नघूर्णन्मृदङ्गोदामपाठेन प्रपन्ना या मञ्जुवसन्तरागभङ्गी आलपनरेखा तया संबद्धानि वेणुविवरोल्लसत्स्वरभेदसाधनस्थानानि तैः सहे समर्थे । १मोयए A. २ पप्फल्लिय ०.३ दक्खण DNS. ४ चित्तए ARD. ५पिअमणुस्सं B. ६ अन्त्यस्य N. ७ अन्तस्य P. ८ स्यात् F. ९ सरसयसुरहि. N. १० वोलालयंमि P. ११ निउरुंब BDS. १२ तिहूअणमण. A; तिहुअणजणमण• CK. १३ दक्खिणकस० . १४ तरणसंग ADNPs; तरलणसंङ्ग B. १५ हलंत NS. १६ दिहाचक्क P. १७ दंसणुप्पण्णुपि० CNS; दंसणुप्पन्नपि A. १८ दूसंचधरे P. १९ पप्फुल्लिअसघण ACDNS. २० कुरवय BP. २१ घचक्क NS. For Personal & Private Use Only www.jainelibrary.org Jain Education International
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy