________________
१५८
छन्दोऽनुशासनम् । केचित्तु पचाभ्यां तिरिति निध्यायिकां वदन्ति । यथा
"वम्मीसरकंचणतोमरललिआ,
दिट्ठा छुडु सुंदरि चंपयकलिआ। घुलिओ छुडु दक्खिणओ गंधवहो, विअलिओ ता पहिआण मणोरहो ॥ ७६.४ ॥
चुपौ युग्न जोऽधिकाक्षरा ॥ ७७॥ पञ्च चतुर्मात्रा एकः पञ्चमात्रस्तथा समो न जगणोऽधिकाक्षरा । यथा
"उजागरओ कवोलपंडुत्तणं तणुअत्तं,
दीहुण्हा सासदंडया चित्तए विवसत्तं । अहिअक्खरजंपिएण किं वा सुहय तुह विरहे,
सा एत्ताहे वराइँआ निअयं मरणं लहे ॥ ७७.१ ॥
सा तुर्यपा मुग्धिका ॥७८॥ सा अधिकाक्षरा तुर्योऽपि चेत्पगणो भवति तदा मुग्धिका । यथा
"जीए लग्गेइ चंदणं गरलरसं व दूसहं, __ अंगपि अ जीए तावइ ससी अणंगनीसहं । कयलीदलमारुओ वि किरइ हुअवहं पिव जीए,
दाहो मुद्धाइ एस कह समइ गुणालय तीए ॥ ७८.१ ॥
आदौ पश्चित्रलेखा ॥७९॥ सा अधिकाक्षरा आदौ पैश्चेचित्रलेखा । यथा
"नहयलम्मि सयलदिसामुहेसु गहणम्मि गिरिवरे, ___ संरिपुक्खरिणिआसु देवउलएसु भित्तिसु नैयरे । दूरम्मि पासे घरम्मि अंगणपएसए तुह
चित्तलिहिअं पिव मयच्छि पेच्छामि सुंदरं मुहं ॥ ७९.१ ॥ 1) वम्मीसरकंचणेत्यत्र हे सुन्दरि यावत् कन्दर्पस्य काञ्चनतोमरवल्ललिता मनोहरा चम्पककलिका दृष्टा यावच्च दक्षिणतः गन्धवहो वायुः घूर्णति । छुडु देश्यः शीघ्रार्थे निश्चये च । निश्चितं तावत्पथिकानां मनोरथो गलितः । 2) उजागरओ इत्यत्र कंचित्काचियाह । तव विरहे सति तस्या निद्राभावः कपोले पाण्डुत्वं दीर्घोष्णाः श्वासदण्डाः चित्ते बिह्वलत्वं इत्यादयो दोषा भवन्ति । अहिअक्खरजपिएणत्ति - अधिकप्रबन्धकथनेन किं वा। इदामी सा वराकिका निश्चितं मरणं प्राप्स्यति चेत् त्वं नागमिष्यसीति भावः। 3)जीए लग्गेइ चंदणमित्यत्र यस्या अङ्गे गरलरसमिव चन्दनं दुस्सहं लगति । यस्या अङ्गमपि तापयति । कः । शशी चन्द्रः । कीदृशः। अनङ्गस्य नितरां सखा । कदलीदलमारुतोऽपि किरइत्ति हुताशनवद्दाहं करति यस्या मुग्धायाः हे गुणालय । त्वया विना कथं एतदपशाम्यति । 4) नहयलंमि सयलेत्यत्र नभसि सकलदिङ्मुखेषु गहने गिरिवरे नदी महती सरित तुच्छजला पुष्करिणी वापी तासु । देवकुले भित्तिषु नगरे दूरदेशे पार्श्व गृहे प्राङ्गणप्रदेशे एषु स्थानेष हे मृगाक्षि चित्रलिखितमिव सुन्दरं तवाननं पश्यामि ।
१ विललिओ N; वियलिय A. २ विवसंतं N. ३ वराईया A. ४ य A; dropped in P. ५ यः N. ६सिरिपु. B. ७भयरे s.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org