________________
चतुर्थोऽध्यायः। षचीदाश्चन्द्रलेखा ॥ ६८॥ एकः षण्मात्रः चत्वारश्चतुर्मात्राः द्विमात्रश्चैकः चन्द्रलेखा । यथा
"मयणविआरसमुंदलहरिवित्थारकारिणी,
जणिआणंदचंदमणिनिझरसारसारणी । उच्छलंतलायण्णमऊहावलिपसा हिआ,
मज्झ नैयणकुमुआण इमा सा चंदलेहिआ ॥ ६८.१ ॥
चिताः क्रीडनकं जैः॥६९॥ चतुर्मात्रत्रयमेकः पञ्चमात्रः त्रिमात्रश्च । जैरित्यष्टभिर्यतिश्चेत्क्रीडनकम् । यथा
"कंकणकिंकिणिनेउरकलयलमुहलं, ___पवणपहल्लिरसिचयंचिअगयणयलं । दीहोच्छल्लणखेल्लणकयलोलणयं, ' सहइ इमाए अंदोलणकीलणयं ॥ ६९.१ ॥
षपचतदा अरविन्दकम् ॥ ७० ॥ षट्पञ्चचतुस्त्रिद्विमात्राः अरविन्दकम् । यथा
"उअह तुझे विरहे इमाइ मुहकमलं,
अविरलबाहधाराविलुलिअकज्जलं । अब्भलेहपिहिअं व पुण्णिमचंदयं,
सेवलसंवलिअं व नवारविंदयं ॥ ७०.१ ॥ .. षलदलचदगागौ मागधनकुंटी ॥७१॥ पण्मात्रलघुद्विमात्रलघुचतुर्मात्रद्विमात्रगुरुभ्यः परौ गुरू चेन्मागधनर्कुटी । यथा
"नवमयरंदपाणपायडमयउत्ताला,
भमरा रुणरुणंति कायलिकयसदाला । - 1) मयणवियारेत्यत्र मदनविकारसमुद्रलहरीविस्तारकारिणी जनिता निष्पादिता आनन्द एव चन्द्रमणिचन्द्रकान्तस्तस्य निर्झरो निष्यन्दः स एव सारसारिणी यया सा। उच्छलल्लावण्यमयूखश्रेणिभिः प्रसाधिता शोभिता । मम नयनकुमुदानां एषा चन्द्रलेखेव चन्द्रलेखिका आह्लादकत्वात् । 2) कंकणकिंकिणीत्यत्र एतस्या आन्दोलनक्रीडनं शोभते । कङ्कणकिङ्किणीनूपुराणां कलकलः शब्दविशेषस्तेन मुखरम् । पुनः कथंभूतम् । पवनेन प्रकम्पमानं यत्सिचयं परिधानवस्त्रं तेनाञ्चितं पूजितं गगनतलं यत्र तत् । दीर्घान्दोलनक्रीडाकृतालोउनकम् । 3) उभ तुब्भेत्यत्र पश्य तव विरहे एतस्या मुखकमलम् । कीदृशम् । अविरलं निरन्तरं बाष्पधाराभिविलुलितं कज्जलं यत्र । अभ्रलेखापिहितमिव पौर्णिमचन्द्रं अथवा सेवालपटलैः संवलितं आच्छादितं नवीनारविन्दमिव । 4) नवमयरंदेत्यत्र नूतनमकरन्दपानेन प्रकटो मदस्तेन उत्ताला · मदोत्कटा ये भ्रमरास्ते रणरणं(ण)शब्दं कुर्वन्ति । कीदृशाः । काकलीकृतशब्दालाः । विरूपा दृष्टिर्यासां ता विदृष्टयः न विदृष्टयो अविदृष्टयः शोभनदृष्टय इत्यर्थः । चूताङ्कुरैः कषायः कण्ठो यासां ता एवंविधाः कलकण्ठ्यः कोकिलाः पञ्चमस्वरं उद्गिरन्ति शब्दं कुर्वन्तीत्यर्थः।
..१ समद्द 8..२ णिब्भर DN; निब्भर CP. ३ नयनकु. N. ४ चिपचाः N. ५ तुब्भ N, ६.पिहिअव्वं D. ७ The whole line upto यथा is dropped in P. ८ कोइलि A. . ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org