SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १५४ छन्दोऽनुशासनम् । इहान्या अपि सुमनः-तारा-ज्योत्स्ना-मनोवतीप्रभृतयः सप्तत्रिंशद् गणसमा द्विपयो विपुला-चपलादयोष्टावर्द्धसमाश्च कैश्चिन्निबद्धाः । ताश्च क्वचित्काश्चिदन्तर्भवन्तीति पृथङ् नोक्ताः ॥ ६४.१॥ साये न्ले छै रचिता ॥६५॥ सा द्विपदी आये चगणे न्ले लघुचतुष्टये सति छैः सप्तभिर्मात्राभिर्यतिश्चेद्रचिता । रतिकेत्यन्ये । यथा "नच्चिरकीरमिहुणकोलाहलमुहलिअकलेमछेत्तओ, ___ दिम्मुहमहमहंतगंधुक्कडविअसिअँसत्तवण्णओ। विरइअमुद्धदुद्धसुंदेरिमेअविरलकासहासओ, ___ पिअसहि मा पिअंमि परिकुप्पसु जं सरओ समागओ ॥ ६५.१ ।। गन्तारनालम् ॥ ६६॥ सा द्विपदी गुर्वन्ता एकेन गुरुणा वृद्धा आरनालम् । यथा- . .. "अविरलबाहवारिधारावलिविअलणसोणलोअणाए, दारुणपंचबाणबाणार्हयहिअयफुरंतवेअणाए। तुह विरहमि चंदमंदानिलचंदणतावजालिआए, अहिणवमार नालवणयं पि तीइ तं कुणसि बालिआए ॥ ६६.१ ॥ उपान्त्यलोना कामलेखा ॥ ६७॥ सैव द्विपदी अन्त्यस्य गुरोः समीपमुपान्त्यं तत्र यो लः तेनोना कामलेखा। यथाराई चंदकिरणधवला मणहरणा पुप्फमाला, नीलुप्पलपसूणपरिवासमहग्या जुण्णहाला । गेहं रयणदीवरुइँरुइरं गीअं पंचमेणं, तेण विणा असारमखिलं खु कामलेहाधरेणं ॥ ६७.१ ॥ 1) नच्चिरकीरमिथुने(हुणे)त्यत्र नर्तनशीलशुकमैथुनकोलाहलमुखरितशालिक्षेत्राणि यस्यां सा । दिघुखेषु उल्लसन्तो गन्धोत्कटा विकसिताः सप्तपर्णाः यस्यां सा। विरचिता मुग्धैः ग्रामलोकैः दुग्धानां सुन्द(न्दे)रिमेति सौदर्य यत्र । काशेषु दुग्धगुणारोपः इत्यर्थः । सा चासौ अविरलकाशा एव हासः तो उभौ यत्र सा। यस्मात्कारणात् एवंविधा शरत् समागता अत एव प्रियसखि प्रिये मा परिकोपं कुरु। 2) अविरलबाहेत्यन्त्र हे अभिनवमार कामसदृशरूप तस्या आलपनं अपि त्वं न करोषि । तस्याः कथंभूतायाः। अविरलबाष्पवारिधारावली[विगलनशोण लोचनायाः। पुनः क. दारुणपञ्चबाणाहतहृदये स्फुरद्वेदनायास्तव विरहे सति चन्द्रमन्दानिलचन्दनानां तापैालितायाः। 3) राई चंदकिरणेत्यत्र चन्द्रकिरणैर्धवला रात्रिर्मनोहरा पुष्पमाला नीलोत्पलप्रसूनवासमहयों जीर्णहाला मदिरा रत्नप्रदीप रुचि रुचिरं गृहं पञ्चमस्वरेण गीतम् । युक्तमित्यध्याहार्यम् । परं तेन भर्ना विना सर्व अपि असारम् । कीदृशेन कामरेखाधरेण । - १ इहान्यापि N. २ मुहल्लियकमल० A; मुहलिअकमल• D ३ गंधक्कड B; गंधछुड 0. ४ विहसिम ABDNP. ५ सुंदरिम Ns. ६ बाणाहइहि. P. ७ विहरंमि P. ८ रुइ dropped in AK; रुइरं रुइ N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy