________________
चतुर्थोऽध्यायः। दामिनी यथा"सिरिसिद्धरायनंदण तुमयं आयंतमिक्खिळ झत्ति धाविरीऐ इमाइ
पज्जाउलत्तवससिढिलबद्धगंठि ल्हसिऊण
रमणत्थलाउ चरणग्गएसु रईअघणावेढम् । मणिकंचिदाम निम्मैिअगइखलणं दामिणी होइ ॥ २३.७ ॥ मालादामो यथा"हहो जुआणय तुमं मा उजाणम्मि भर्मंसु भुल्लो वि अन्नहा इत्थ फुल्लिअ
नवल्लमल्लिऑवचयकोउँअपरायणाण मयभिंभलाण
___ कंदप्पविब्भमुब्भासिआण पोढमहिलिआण । दूसहकडक्खमालादामिअहिअओ न नीहरसि ॥ २३.८ ॥ इदानी मात्राच्छन्दसां गुरुलघुपरिज्ञानार्थमाह -
__ "मात्रा वर्णोना गो" वर्णा गूना लः ॥२४॥ यस्य कस्यापि मात्राच्छन्दसो यावत्यो मात्रा भवन्ति ता वर्णोना अक्षरैरूना गुरवो ज्ञातव्याः । तथा वर्णा गुरुभिरूना लघवो ज्ञातव्याः । तत्रायमुपयोगः। यदा कश्चित्पृच्छति अष्टात्रिंशदक्ष यां कति गुरवः कति वा लघव इति तदा "सप्तपश्चाशति शास्त्रोपदिष्टायामार्यामात्रासंख्यायामष्टात्रिंशतं वर्णसंख्यामपनयेत् अँत्र येऽवशिष्यन्ते तान्गुरुंनुपदिशेत् । ते चैकोनविंशतिः । वर्णेभ्यश्च गुरून्पातयित्वा शेषोंनेकोनविंशति लघूनुपदिशेत् । यथा
1) सिरिसिद्धरायनंदणेत्यत्र हे कुमारपाल त्वां आयान्तं ईक्षितुं शीघ्र धावमानायाः अस्याः पर्याकुलत्वबशात् शिथिलीभूतबद्धग्रन्थितः संसित्वा ल्हसिऊण हादिवर्जनात् पूर्वोऽत्र गुरुन भवति । रमणत्थलाउत्ति-जघनस्थलात् । यदनेकार्थसंग्रहः - 'रमणं पुनः । पटोलमूले जघने रमणो रासभे प्रिये' इति । सांप्रतं चरणाग्रतो रचितघनावेष्टं यथा स्यात्तथा रचितगतिस्खलना दामिनी पशुबन्धनरज्जुर्भवतीति। 2) हं हो जुआणयत्तिभो भो युवन् उद्याने मा भ्रम । भुल्लो देश्योऽज्ञातार्थे । यदि च गमिष्यसि तदात्र पुष्पितनूतनमल्लिकापचयने [स] कुतुकानां मदविह्वलानां कन्दर्पविभ्रमोद्भासितानां प्रौढमहेलिकानां दुःसहकटाक्षश्रेणिबद्धहृदयः सन् न निस्सरसि । न बहिरागमिष्यसीति भावः। 3) मात्रा वर्णोना इति - गो गुरवो [लो ] लघवः । तथा वर्णा विवक्षिताक्षराणि । 4) सप्तपञ्चाशतीत्यत्र आर्या-पथ्या-विपुला-चपलादेः पूर्वार्द्ध ७ चगणा गुरुश्च तस्य मात्राद्वयं विवक्ष्यते ततो ३० मात्राः । अपराद्धे तु षष्ठस्य लघुत्वात् ३ हानौ २७ मात्राः। ततो द्वयोर्मीलने ५७ भवन्ति । जयति विजितेत्यत्र भाकस्मिकं भयं त्रासः । पक्षे रत्नान्तर्वी दोषः । यमिते सति यमकसहिते (इत्यार्याप्रकरणम्)।
१उक्खियं B. २ धाविरीइ AB. ३ स्थलाओ D. ४ रईअ० CN. ५ निमियगइ A.६ भवसु s. ७ मल्लिआचयs. ८ कोऊअS. ९ विब्भासिआण; १० उपोटम. N; पोढमहिलाण A. ११ अथ F. १२ गा N. १३ स्युः F. १४ ज्ञेयाः F. १५ तथा to ज्ञातव्या dropped in P.-१६ यथा P. २७Padds आर्यायां. Portion from आर्यामात्रासं० to तुह विरहे in २५-१ is not photo graphed in P.१८ तत्र A. १९ ते गुरवः F. २० शेषाः १९ लघवः F.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org