________________
१३५
चतुर्थोऽध्यायः। द्वाभ्यां भद्रिका ॥११॥ गीतिरेव द्वाभ्यां सप्तमतृतीयपगणाभ्यां भद्रिका । यथा
"जुवईण नयणलच्छीए सहजसलोणत्तणेण भद्दिआए ।
चक्खुभएण व दिण्णयं लक्खिजइ कज्जलं वयंसिआहिं ॥ ११.१ ॥ अत्र तृतीयसप्तमपगणयोः षट् षट् भेदास्ततस्तेषामन्यविकल्पानां चान्योऽन्यपाते जाता अष्टाविंशतिः सहस्राणि अष्टौ शतानि पूर्वार्धे । तेषां तावद्भिरेवोत्तरार्धविकल्पैर्घाते जाता द्वयशीतिः कोट्यश्चतुनेवतिलेक्षाश्चत्वारिंशत्सहस्राः॥११.१॥
षष्ठं विनेष्टपैर्विचित्रा ॥१२॥ गीतिरेव "षष्ठगणं विना यथेष्टं पगणैर्निबद्धा विचित्रा । यथा
"भासासु विचित्तासु जुगवं सुरनरतिरिआण जीवजाईण ।
संवादमणुहवंती जयइ वाणी भयवओ जिणिंदस्स ॥ १२.१ ॥ विचित्रभेदत्वादस्या विकल्पसंख्या नोक्ता । केचित्सर्वैरपि पगणैरिच्छन्ति ॥१२.१॥
चेऽष्टमे स्कन्धकम् ॥ १३ ॥ गीतिरेवाष्टमस्य गुरोः स्थाने चगणे कृते स्कन्धकम् । आर्यागीतिरित्यहीन्द्रः। अत्र गीत्यर्धविकल्पानामष्टमचगणविकल्पपश्चकेन ताडने जाताश्चतुःषष्टिः सहस्राः पूर्वार्धे । तावद्भिरेवोत्तरार्धविकल्पैस्ताडने जातानि चत्वारिंशदर्बुदानि नव कोव्यः षष्टिलक्षाणि ।
यथा"तुह रिउरायपुरेसुं तरुणीजणलालिअम्मि 'किंकेल्लिवणे ।
संपइ अरण्णमहिसाण खंधकंडूअणं पयट्टेइ दढम् ॥ १३.१ ॥ केचित्तु लघुचतुष्टयादारभ्य लघुद्वयद्वयवृद्ध्या ब्रह्मादीनि स्कन्धकान्याहुः। यथा
बंभो हीरो कण्हो रामो चंदो पुरंदरो मेरू । धम्मो सेलो भाणू जक्खो वर्णही अ मायंगो ॥ १३.२ ॥ कालो हरी कुबेरो सालो सुवणो सुदंसणो खंदो।
नीरं सिही सुवण्णो मेहों पंको अ कल्हारो ॥ १३.३ ॥ ____ 1) जुवईणेत्यत्र नयनलक्ष्म्याः । 'एदौतौ पदान्ते प्राकृते ह्रस्वौ वा' (छं० १.९) इति ह्रस्वत्वं ज्ञेयम् । सहजसलवणत्वेन प्रशस्याया चक्खुभएण । इवोप्रेक्षते-दृष्टिदोषविघाताय वयस्याभिः सखीभिर्दत्तं कज्जलम् । 2) षष्ठगणं विना यथेष्टमिति-यादृशाः पगणाः रोचन्ते तादृशाः क्षेप्याः यत्र तत्र वा। चगणानां मध्ये पुनः षष्ठं चगण वर्जयित्वा। 3) भासासु विचित्तासुत्ति - भाषासु विचित्रासु युगपत् सुरनरतिरश्चां जीवजातीनां संवदनं संवादस्तं अनुभवन्ती जयति सर्वोत्कृष्टत्वेन प्रवर्तते वाणी भगवतो जिनेन्द्रस्य । भा १ वि२ सु.३ पञ्चमात्राः। सु १ति २ ण ३ चगणाः । ज. पगणः। 4) तुह रिउरायेति-तव रिपुराजपुरेषु तरुणीजनलालिते कंकेल्लिवने । सांप्रतं तत्र वने वनमहिषाणां स्कन्धकण्डूयनं प्रवर्तत इति भावः। ... १चक्खुम्भएण दिन्नं E. २प dropped in N. ३ जीवजाईणं A. ४ भगवओ ...५जीतेरर्ध०. . ६ कंकेल्लिवणे ABRKP; किंकिल्लवणे s. ७ पयट्टेइ NS. ८ पण्ही N. ९ मोहो s.
.
..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org