________________
चतुर्थोऽध्यायः।
१३३ महाचपलोपगीतौ पूर्वार्धे षोडश । अपरार्धेऽपि तावन्तः । अन्योन्यताडनायां षट्पञ्चाशदधिके द्वे शते । मुखचपलोपगीतौ पूर्वार्धे षोडश विकल्पाः । अपरार्धे चतुःषष्टिः शतानि । अन्योज्यताडनायां लक्षमेकं चतुर्विंशतिः शतानि । जघनचपलोपगीतावपि तावन्त एव । तत्र पथ्योपगीतिर्यथा
"उपगीति कुरङ्गशिशो मा गाः श्रुतिसुखलवस्पृहया । व्याधं किमिति न पश्यसि चापन्यस्तेषुमिह पुरतः ॥ ७.१ ॥ महाविपुलोपगीतिर्यथा
"संप्रति शिलीमुखाः पश्य महाविपुलोपगीतिरवैः ।
सौखप्रसुप्तिकाः पङ्कजिनीः प्रीत्योपतिष्ठन्ते ॥ ७.२ ॥ पथ्यामहाचपलोपगीतिर्यथा
उपगीतिगन्धरूपादि याति चेतो महाचपलम् । तेभ्यो निवर्तयैतत् समीहसे चेत् परां सिद्धिम् ॥ ७.३ ॥ महाविपुलामहाचपलोपगीतिर्यथा
"चूताङ्कुराः स्मरास्त्राणि चापलात्कोकिलै-ढाः । विपुलोपगीतयोऽस्त्राणि तेनिरे तेन तैस्तस्य ॥ ७.४ ॥
___ एवं शेषभेदेषु द्वादशस्वप्युदाहार्यम् ॥ ७.४ ॥
द्वयोर्व्यत्यये उद्गीतिः॥८॥ आर्यायाः द्वयोः पूर्वार्धपराधयोर्विपर्यये उद्गीतिः । इयमपि पूर्ववत् षोडशधा पथ्यावच्च तदुद्गीतिषु विकल्पा वाच्याः । तत्र पथ्योगीतिर्यथा
. वीरवरेण्य रणमुखे श्रुत्वा तव सिंहनादमिह ।
सपदि भवन्त्यरिकरिणो मधुव्रतोद्गीतिरिक्तगण्डतटाः ॥ ८.१ ॥ महाविपुलोद्गीतिर्यथा
"विपुलोद्गीतिः कलकोकिलारवैः पल्लवाताम्रा । मत्तेव पुरस्तरुपतिरियं मधुपरिचयादितो भाति ॥ ८.२ ॥
1) उपगीति कुरङ्गेत्यत्र गीतिर्गानं तस्याः समीपं उपगीति । अव्ययीभावसमासः। मा गाःमा गच्छेः । म्याध लुब्धकं धनुर्व्यस्तबाणम् । 2) संप्रति शिलीत्यादि - शिलीमुखा भ्रमराः । सुखं प्रसुप्तं सुखप्रसुप्तं तद्विद्यते यासां ताः पृच्छती(न्ती)ति भावः। 3) उपगीतिगन्धरूपादीत्यत्र गीत्यादयः पञ्च विषयास्तेषां समीपे । 4)चूताकुरा इत्यत्र भाम्राकुराः कन्दर्पबाणाः यद्यास्वादितास्तर्हि तस्यापरे बाणा विलोक्यन्ते इत्याह । तेन कारणेन तैः कोकिलैस्तस्य कन्दर्पस्य अस्त्राणि विपुलोपगीतयः तेनिरे कृता इत्यर्थः। 5) विपुलोद्रीतिरित्यत्र मधुश्चैत्रमासो मधं च । इतः पार्थे ।
१ चतुःषष्टिशतानि AP. २ चतुर्विंशतिशतानि ACP. ३ सौखप्रसुप्तिका AB. ४ महा dropped in . B. ५ महाविपुलोपगीतिः ..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org