________________
१३२
.
छन्दोऽनुशासनम् । - द्विः पूर्वार्धं गीतिः॥६॥ द्वो वारौ पूर्वार्धलक्षणं यस्यामार्यायां सा गीतिः । सा चैकः पथ्यायास्त्रयो विपुलाया द्वादश चपलाया विकल्पा इति षोडशधा । अत्र पूर्वार्धे द्वादश सहस्राण्यष्टौ शतानि विकल्पाः । अपरार्धेऽपि तावन्तः । अन्योऽन्यताडनायां षोडश कोट्यः अष्टात्रिंशलक्षाः चत्वारिंशत्सहस्राः विकल्पाः पथ्यागीतौ भवन्ति । विपुलागीतावपि त एव । सर्वचपलागीतौ पूर्वार्धे द्वात्रिंशद्विकल्पाः । अपरार्धेऽपि तावन्तः। अन्योऽन्यताडनायां चतुर्विंशत्यधिकानि दश शतानि । मुखचपलागीतौ पूर्वार्धे द्वात्रिंशद्विकल्पाः । अपरार्धे द्वादशसहस्राण्यष्टशताधिकानि । अन्योऽन्यताडनायां चतस्रो लक्षाः षण्णवतिः शतानि । जघनचपलायामप्येतावन्त एव । तत्र पथ्यागीतिर्यथा
"विरचितकुसुमाभरणा तन्वाना गीतिमलिकुलनिनादैः ।
अभ्यागच्छति चैत्रे वासकसज्जेव संप्रति वनश्रीः ॥ ६.१ ॥ महाविपुलागीतिर्यथा
"मत्तद्विरेफपुंस्कोकिलेवैतालिकमहाविपुलगीत्या । क्रियते निर्भरमुन्निद्र एष यूनां मनःसु मनसिशयः ॥ ६.२ ॥ पथ्यामहाचपलागीतिर्यथा
"यावल्लुनामि चूताङ्करान्पुरोऽस्या मधुं व्यपह्नोतुम् ।
तावद्बभूव गीतिः पिकाङ्गनानां प्रमोदचपलानाम् ॥ ६.३ ॥ महाविपुलामहाचपलागीतिर्यथा
कष्टां जनस्त्वदालोकनादपि क्षणमिमां दशां लभते । विपुलां तनोषि दीर्घाक्षि गीतिमेतां कुतो महाचपले ॥ ६.४ ॥
__ एवं शेषभेदेषु द्वादशस्वप्युदाहार्यम् ॥ ६.४॥
पराधमुपगीतिः॥७॥ द्विः परार्धलक्षणं यत्र भवति सा आर्योपगीतिः । इयमपि पूर्ववत् षोडशंभेदा। तत्र पथ्योपगीतौ पूर्वार्धे चतुःषष्टिशतानि विकल्पाः । अपरार्धेऽपि तावन्तः । अन्योज्यताडनायां चतस्रः कोट्यो नव लक्षाः षष्टिः सहस्राणि । विपुलोपगीतावपि तावन्त एव ।
1) विरचितेत्यत्र भर्तरि समागते आत्मानं अलंकरोति । (see p. 103_n. 2). 2) मत्तद्विरेफेत्यत्र पुरुषवत् प्रगल्भवचाः कोकिलः पुंस्कोकिल उच्यते। 3) यावल्लनामीत्यत्र काचिद्विरहिणी वसन्तागमे वसन्तं विनाशयितुं प्रवृत्ता आह]-वसन्ते कन्दर्पसद्भाव इति हेतोः कन्दर्पशस्त्रहेतून चूताछरान हे सखि यावल्लनामि तावत्कोकिलानां ध्वनिः प्रादुर्भूतः । किं करोमि इति भावः । यद्वा चूताङ्कुरा हि मधोरवतारे भवन्ति ततश्च यदि छिननि तदेषा विरहिणी वसन्तागमं न जानातीति भावः।
१अपरार्धे तु P. २ पुष्कोकिल P. ३ काष्टां जनः A; कष्टाञ्जनः N. ४ उपगीति N. ५षोडशमेदाः N. ६ त एव B.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org