________________
चतुर्थोऽध्यायः। "तस्या नितान्तचपलान् नेत्रविलासान् विलोक्य बालायाः।
को वर्णयेदमुग्धः कुरङ्गिकादृष्टिललितानि ॥ ५.४ ॥ अन्तविपुलापूर्विका जघनचपला यथा
"उद्दाममारुतहतध्वजघनचपलानि जीवितव्यानि ।
जानन् जनः कथं नाम जातुचित् प्रीयते तत्र ॥ ५.५ ॥ महाविपुलापूर्विका जघनचपला यथा
कस्य कृते कृतपुण्यस्य दृष्टिरियमनिमिषा त्वया ध्रियते ।
यासीत्पुरा कुरङ्गाक्षि नित्यमत्यन्तचपलैव ॥ ५.६ ॥ एवं मुखविपुलापूर्विका जघनचपलोदाहायर्या । पथ्यापूर्विका महाचपला यथा
"चपलं न कस्य चेतो नरस्य जायेत पश्यतस्तन्वीम् ।
नृत्येक्षणेऽत्र नव्याङ्गहारलीलामहाचपलाम् ॥ ५.७ ॥ महाविपुलापूर्विका महाचपला यथा
"युगपत्प्रफुल्लकङ्केल्लिमल्लिकाबकुलचम्पकान् दृष्ट्वा ।
जाता मधूत्सवे षट्पदावलीयं महाचपला ॥ ५.८ ॥ एवं मुखविपुलापूर्विका जघनविपुलापूर्विका च महाचपलोदाहार्या । "एवं गाथाप्युदाहार्या । एवं पथ्याभेदेनैकेन 'विपुलाभेदैस्त्रिभिश्चपलाभेदैादशभिः" षोडश भेदाः । "केचित्तु लघुत्रयादारभ्य द्विद्विलघुवृध्या कमलादीन षड्विंशतिभेदानाहुः । यथा
कमला ललिआ सीला जुम्हा रंभा य मागही लच्छी। विजा माला हंसी ससिलेहा जण्हवी सुद्धा ॥ ५.९ ॥ काली कमली मेहा सिद्धी रिद्धी अ कुम्मई धरणी। जक्खी वीणा बंभी गंधव्वी मंजरी गोरी ॥ ५.१०॥ . कमला तिहि लहुएहिं ललिआ पंचेहिं एवमाईओ।
बिहिं बिहिं वडंतेहिं कमेण सेसाओ जाति ॥ ५.११ ॥
एतच्च गाथाप्रस्तारेष्वन्तर्भूतमिति न पृथग्लक्ष्यते । न च सर्वे प्रस्तारभेदाः शक्या उपदर्शयितुमित्यास्तामेतत् ॥ ५.११॥ . 1) तस्या नितान्तेत्यत्र अमुग्धो दक्षः। ललितानि क्रीडितानि। 2) उद्दाममारुतेत्यत्र प्रचण्डवात्याहतपताकामेघचञ्चलानि । नाम कोमलामन्त्रणे। कदाचित् प्रीणाति संसारे। 3) चपलं न कस्येत्यत्र तन्वीं कान्ताम् । नाटयावसरे नवीनाङ्गविक्षेपमहाचञ्चलाम् । 4) युगपत् प्रेति-मधूत्सवे वसन्तावसरे। 5) एवं गाथेति-प्राकृतादिजा । 6) विपुलाभेदै स्त्रिभिरिति-मुखविपुला-जघनविपुला-सर्वविपुला-भेदैः। 7) द्वादशभिरिति-यतो मुखचपला-जघनचपला - सर्वचपला-रूपेषु त्रिष्वपि भेदेषु प्रत्येकं पथ्या-मुखविपुला-जघनविपुला-सर्वविपुला-रूपाश्चत्वारो भेदा लभ्यन्ते ततो भवन्ति द्वादश। 8) केचित्तु लघुत्रयादिति-भार्याणां हि लघुत्रयेणावश्यं भाव्यम् । काली कुमा(म)रीत्यत्र कुमा(मोरीस्थाने कमली प्रत्यन्तरे ।
- १ अनिमिषात् N. २ नृत्यत्क्षणेत्र N. ३ नव्यानलहार A.४ मल्लिका ब. N.५ लीला A. ६ जुन्हा , ७जन्हवी F. ८ कुमरी AFKP. ९धरिणी P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org