________________
१३०
छन्दोऽनुशासनम् । "शस्त्राभ्यासे रतिवल्लभस्य मन्ये खलूरिका रम्या । तव कमलदलाक्षि नितम्बभूमिरेषा महाविपुला ॥ ४.३ ॥
ग्मध्ये द्वितीयतुर्यो जौ चपला ॥५॥ गुर्वोर्मध्ये द्वितीयतु? जगणौ यस्यां सा चपला । सा चाद्यन्तसर्वभेदात् त्रेधा । तत्र पूर्वार्धे आदिचपला मुखचपलेत्यर्थः । अपरार्धे अन्तचपला जघनचपलेत्यर्थः । द्वयोरप्यर्धयोः सर्वचपला महाचपलेत्यर्थः । तत्र पूर्वार्धे "प्रथमे चे द्वौ विकल्पौ-ऽऽ; द्वितीये एकः ।। "तृतीयेऽप्येकः 55; चतुर्थेऽप्येकः ।। "पञ्चमे द्वौ ss; 5); "षष्ठेऽपि द्वौ 5 m; "सप्तमे चत्वारः ss; us; s| m; अष्टमे गुरुरेव । अन्योज्यताडनायां द्वात्रिंशत् । अपरार्धे षष्ठस्य लघोरेकत्वात् षोडशैव । उभयोर्धताडनायां पञ्चशतानि द्वादशोत्तराणि सर्वचपलाविकल्पाः । मुखचपलायां पूर्वार्धविकल्पैर्द्वात्रिंशता अपरार्धचतुःषष्टिशतविकल्पानां ताडने द्वे लक्ष अष्टाचत्वारिंशच्छतानि । जघनचपलायां चापरार्धविकल्पैः षोडशभिः पूर्वार्धविकल्पानामष्टशताधिकद्वादशसहस्रसंख्यानां ताडने तावन्त एव । विकल्पाः। तत्र पथ्यापूर्विका मुखचपला यथा
"एकोऽपि बालचूतः शिखोद्गमैरभिनवैनो दहति ।
एतत्पुनरधिकं सखि कलकण्ठी तत्र मुखचपला ॥ ५.१ ॥ आदिविपुलापूर्विका मुखचपला यथा
मृदु वाच्य एष नैणाक्षि वल्लभस्ते शठोऽन्यविवशमनाः ।
तर्जय परुषैर्वचनैर्मुखचपलानामयं विषयः ॥ ५.२ ॥ अन्तविपुलापूर्विका मुखचपला यथा
"दयितस्तवानुनीतो मया सखि त्वां किलानुनेष्यति सः।
तं पादानतमालोक्य मा कटु ब्रूहि मुखचपले ॥ ५.३ ॥ . एवं सर्वविपुलापूर्विकायां मुखचपलायामुदाहार्यम् । पथ्यापूर्विका जघनचपला यथा____1) शस्त्राभ्यास इत्यत्र खलूरिका श्रमयोग्या भूः। 2) प्रथमे चे द्वौ विकल्पाविति-यतो द्वितीयो जगणो गुरुद्वयमध्ये भवति गुर्वन्तौ च एतो स्तः। जगणस्य तु ओजस्थानवान्निषेधः। 3) तृतीयेऽप्येक इत्यत्र भोजस्थानत्वात् जगणस्य निषेधः शेषाणां चतुर्णा गणानां मध्ये द्वयोर्गणयोरादौ लघुः [ एकस्य चान्ते लघुः । तत एक एव सर्वगुरुरूपो अवशिष्यते। 4) पञ्चमे द्वाविति- अत्राप्योजस्थानत्वाजगणस्य निषेधः । द्वयोस्त्वादी लघुः स्यात् ततो गणत्रयवर्जनम् । 5) षष्ठे द्वौ इति-षष्ठे स्थाने जन्लयोरेवानुज्ञातत्वात् । 6) सप्तमे चत्वार इति-ओजस्थानत्वात् जगणो न। 7) एकोऽपि बालेत्यत्र कलकण्ठी कोकिला । मुखे वाचाला । 8) मृदु वाच्य एष इत्यत्र मृदु क्रियाविशेषणम् । अन्यासु विवशं परवशं मनो यस्येति सः । या मुखे चपला वाचाला भवन्ति तासां गोचरः। 9) दयितस्तवेत्यत्र अनुनयं प्रापितः त्वा(त्वां) मानयिष्यति हे भास्यवाचाले।
१महाचपला dropped in A. २ dropped in 0. ३ अपि dropped in KP. ४ अपराद्ध N: अपरार्धेऽपि A. ५ उभयाद्ध N. ६ अपरार्धे P. ७ ताडनायां A. ८ अन्तविपुला यथा A,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org