SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चतुर्थोऽध्यायः । पैशाचिके यथा - "पनमध पनयपकुपितगोलीचलनग्गलग्गपतिबिंबं । तससु नखतेंप्पनेसुं एकातसतनुधलं लुहं ॥ १.५ ॥ आर्याया विशेषानाह - एवमन्यभाषास्वप्युदाहार्यम् ।। १.५ ।। आर्याया वक्तव्यान्तरमाह षष्ठे न्ले लादू द्वितीयात्सप्तमे त्वाद्यात्पदमन्यार्धे च पञ्चमे ॥ २॥ पूर्वार्धे षष्ठे गणे न्ले सति द्वितीयालादारभ्य पदं भवति । षष्ठन्लगणस्य प्रथमे ले यतिरित्यर्थः । तथा सप्तमे न्ले आद्याल्लादारभ्य पदं भवति । षष्ठगणान्ते यतिरित्यर्थः । अन्यार्थे द्वितीयेऽर्धे पञ्चमे न्ले सत्याद्यालात्पदम् । चतुर्थगणान्ते यतिरित्यर्थः । यथा - "चतुरम्बुराशिमुद्रितभूभारोद्धारचतुरभुजपरिघः । एकाङ्गवीरतिलकः श्रीमानिह जयति सिद्धेश: ।। २.१ ॥ आद्यचियतिः पथ्या ॥ ३ ॥ यस्या द्वयोरप्यर्धयोराद्यचगणत्रये यतिर्भवति सा पथ्या । यथा" नेपथ्यानि निरस्यति संत्रस्यति मत्तकोकिलानादात् । निन्दति चेन्दुमयूखांस्त्वद्विरहे नः सखी सुभगा ॥ ३.१ ॥ विपुलान्याद्यन्त सर्वभेदात् त्रेधा ॥ ४ ॥ अन्या द्वयोरर्थयोराद्यचियतिरहिता विपुला । सा चाद्यन्तसर्वभेदात् त्रेधा । पूर्वार्धे चगणत्रययतिरहिता आदिविपुला । मुखविपुलेत्यर्थः । अपरार्धे अन्तविपुला । जघनविपुलेत्यर्थः । द्वयोरप्यर्धयोः सर्वविपुला | महाविपुलेत्यर्थः । यथा - " मुखविपुलः पर्यन्ते च लघीयांसो भवन्ति नीचानाम् । वर्षासु ग्रामपयःप्रवाहवेगा इव स्नेहाः ॥ ४.१ ॥ १२९ " नाभीनिम्ना कुचतटतुङ्गा जघनविपुलाथ मध्यकृशा । भ्रुकुटिलाशयसरला च मानसं हरति सा बाला ॥ ४.२ ॥ Jain Education International 1) पनमधेत्यत्र प्रणमत प्रणयप्रकुपितगौरीचरणाग्रलग्न प्रतिबिम्बं दशसु नखदर्पणेषु एकादशतनुधरं रुद्रम् । 2 ) चतुरम्बुधे ( रे ) ति [ अन ] मुद्रितः सहितः । पृथ्वीभारोद्धरणदक्ष भुजार्गलः सिद्धेशः सिद्धराजः । 3 ) नेपथ्यानीति - कस्याश्चित् सख्यस्तद्रुमणं प्रति कथयन्ति । निरस्यति निराकरोति । संत्रस्यति त्रासं भजति । चन्द्रकिरणान् । नोऽस्माकं सखी । 4 ) मुखविपुलाः पर्यन्ते चेत्यत्र नीचानां स्नेहा भवन्ति । क इव वर्षाकाले ग्रामजलप्रवाहवेगा इव । बहिःक्षेत्रेषु प्रवेशनात् । कथंभूताः । आदौ वृद्धाः प्रान्ते लघवः । 5 ) नाभीनिनेत्यत्र नाभौ निम्ना स्तनभागे उन्नता नितम्बे विशाला कटौ कृशा दुर्बला । भ्रुकुटिं लातीति भ्रुकुटिला भ्रुवो वक्रेति वा । The word is dropped in A. २ पनयकुप्पत C. ३ चलणग्ग BE ४ तप्पतेसुं B. .५ चाद्यात् N. ६ आये ले F. ७ मयूषान् B. ८ त्रिधा N. ९ अन्त्यंविपुला C. १० मुखविपुला AN १७ छन्दो० For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy