________________
अथ चतुर्थोऽध्यायः।
"गौ षष्ठो जो लौ वा पूर्वेऽर्धेऽपरे षष्ठो लार्या गाथा ॥१॥
नौजे जः इति वर्तते । नृगौ चगणसप्तकं गुरुवार्धे यस्याः सा आर्या । अत्रापवादः । पूर्वेऽर्धे षष्ठो जगणो न्लौ वा । अपरेऽर्धे' षष्ठो गणो लघुः कार्यः । अर्धग्रहणादार्यादिषु पादव्यवस्था नास्ति । "तेन 'द्वीपादन्यस्मादपि' इत्यादौ गणत्रयस्य "अन्ते "लघोर्गुरुत्वं न भवति । आर्यैव संस्कृतेतरभाषासु गाथासंज्ञेति गाथाग्रहणम् । अत्र पूर्वार्धे "प्रथमे चे विकल्पाश्चत्वारः । यथा-ss; us; s॥ द्वितीये पञ्च 55; ॥551; 5॥॥ तृतीये चत्वारः s sus; 5॥॥ चतुर्थे पञ्च 55॥ 55; 5॥ ॥ पञ्चमे चत्वारः 555; 50 षष्ठे द्वौ ।। सप्तमे चत्वारः 55; ॥ 5 ॥ ; अष्टमे गुरुरेक एव । अन्योन्यताडनायां द्वादशसहस्राण्यष्टौ शतानि । एवमपरार्धेऽपि । नवरं षष्ठे लघुन्येकस्मिन्नेक एव विकल्पः । अन्योज्यताडनायां षट् सहस्राणि चत्वारि शतानि । उभयदलविकल्पताडनायां अष्टौ कोटयः एकोनविंशतिर्लक्षाः विंशतिः सहस्राणि । यदाह -
जगणविहीना विषमे चत्वारः पञ्च युजि चतुर्मात्राः। द्वौ षष्ठाविति चगणास्तद्घातात् प्रथमदलसंख्या ॥ १.१॥ एवमपरार्धसंख्या षष्ठे स्याल्लघुनि चैकस्मिन् ।
आर्यासंख्योभयदलसंख्याघाताद् विनिर्दिष्टा ॥ १.२ ॥ आर्या यथा
"उपदिश्यते तव हितं यदि वाञ्छसि कुशलमात्मनो नित्यम् ।
मा जातु दुर्जनजनेष्वार्याचरितं प्रपद्यस्व ॥ १.३ ॥ प्राकृते यथा
कलसभवतवस्सिचुलुअपूरणमेत्ते वि मुणिअमज्झाण ।
जलहीण कहं सरिसा सया अगाहा महप्पाणो ॥ १.४ ॥ ___ अथ चतुर्थाध्यायस्य पर्यायाः प्रादुःक्रियन्ते। 1) गौ षष्ठो ज इत्यत्र गौ पूर्वार्धे पश्चार्धे च भवतः । परं परार्धे षष्ठचतुर्मात्रिकस्थाने एक एव लघुवर्णः कार्यः । एतावता मात्रात्रयं हीयते अपरार्धे । चु इति-सप्तमः स्वरः। 2) तेन द्वीपेत्यत्र द्वीपादन्यस्मादपि मध्यादपि जलनिधेर्दिशोऽप्यन्तात् । आनीय झटिति घटयति विधिरभिमतमभिमुखीभूतः । अन्तात् प्रान्तात् । झटिति शीघ्रम् । अभिमतं इष्टं संमुखः सन् । 3) अन्ते गुरुत्वं नेति-वान्ते ग्वक्र इति सूत्रोक्तम् । 4) प्रथमे चे विकल्पाश्चत्वार इति-नौजे जः इति सूत्रांशेन जगणस्य निषिद्धत्वात् । 5) उपदिश्येत्यत्र आर्याणां सरलानां आचरितम् । 'शठस्तु हठकर्मणा लुठति पादपीठे परम्' इति वचनात् । 6) कलसभवेत्यत्र महात्मनां समुद्रोपमानं न घटते यथा कुम्भजन्मतपस्विचुलुकमानमात्रेऽपि ज्ञातमध्यानां जलधीनां कथं सदृशा सदा अगाधा अप्राप्तपारा महात्मानः ।
१ पूर्वार्धे परे H; पूर्वेऽर्धे परे BN; पूर्वेऽर्धे अपरेऽर्धे A; पूर्वेऽर्धे अपरे P. २ आर्या N. ३ परेऽर्धे N. ४ लघोः dropped in P. ५ अष्टा N. ६ विंशतिसह. N. ७ तज्जाता ABCN. ८ मित्ते EF.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org