________________
१२६
छन्दोऽनुशासनम् । एवमन्यदप्युदाहार्यम् । अथवा एभिरिति वैतालीयादिभिः पादाकुलकम् । अयमर्थः-एकः पादो वैतालीयस्य, अपरः औपच्छन्दसकादेर्मात्रासमकादेर्वा । यद्वा एका औपच्छन्दसकादेः, अपरो मात्रासमकादेः । यद्वा एको मात्रासमकस्य, अपरः उपचित्रादेः पादः इत्यादि । तदापि पादाकुलकम् ॥ ७०.५॥
चो गीनंटचरणं जैः॥७१॥ चगणो गुरुचतुष्टयं च । जैरित्यष्टभिर्मात्राभिर्यतिः । यथा
कर्मविशेषाद् दिव्यो, मर्त्यस्तिर्यग्रूपः ।
इह भवेनाट्ये जन्तुर, नटचरणं ही धत्ते ॥ ७१.१ ॥ इह चः पञ्चविकल्पो गीस्त्वेकविकल्पः इत्यन्योऽन्याघाते पञ्चैव प्रतिपादम् । तेषामन्योन्यताडनायां षट् शतानि पञ्चविंशत्यधिकानि ॥ ७१.१॥
___ चौ गौ चो गौ नृत्तगतिष्ठैः ॥७२॥ द्वौ चतुर्मात्रौ गुरुद्वयं चतुर्मात्री गुरुद्वयं च । हैरिति द्वादशभिर्यतिः । यथाअधुना ध्वनति गभीरं मेघमृदङ्गे, चण्ड्यां तडिति पुरस्ताच्चित्रपदायाम् । इह किमपि नीलकण्ठः प्रमुदितचित्तो, गीतगतिं तनुतेऽसौ नृत्तंगतिं च ॥ ७२.१ ॥
अत्र प्रथमे चगणे पञ्च भेदाः। द्वितीयेऽपि । तृतीये एकः। चतुर्थे पञ्च । पञ्चमें एकः । अन्योज्यघाते पञ्चविंशत्यधिकं शतं प्रतिपादं भावादन्योन्यताडनायां चतुर्विंशतिः कोव्यः एकचत्वारिंशल्लक्षाः चत्वारिंशत्सहस्राः षट् शतानि पञ्चविंशत्यधिकानि ॥७२.१॥
चीनौजे जो जो लीर्वान्तेऽनुप्रासे पद्धतिः ॥ ७३ ॥ चगणचतुष्टयं पादान्तेऽनुप्रासे सति पद्धतिः। पद्धटिकेत्यन्ये । अस्यापवादः। नात्र विषमे जगणः पादान्ते च जगणो लघुचतुष्टयं वा । यथा
छत्रायमाणधरणोरगेन्द्र, पार्श्वजिनेन्द्र स्मरमृगमृगेन्द्र । दर्शय दीर्णदुरिततिमिरनिकर, सत्पद्धतिमास्यजितरजनिकर ॥ ७३.१ ॥ यथा वा धनपालस्य
"नतसुरकिरीटसंघृष्टचरण, जय भवगतिभीतजनैकशरण ।
चपलाक्षशकुनिसंयमनपाश, जय विदितजगत्स्थितिसर्गनाश ॥ ७३.२ ॥ अपभ्रंशे चास्या भूयसा प्रयोगः। यथा
'उन्निद्दकमलदलदीहरच्छु, कंचणकवाडदढविअडवच्छु ।
सुरवइकरिंदकरसरलबाहु, "एकंगिण अरिबलु धेरैइ नाहु ॥ ७३.३ ॥ 1) नतसुरेत्यत्र चञ्चलेन्द्रियपक्षियन्त्रणपाशेति । 2) उन्नित्ति-उत्फुल्लपङ्कजदलदीर्घाक्षः स्वर्णकपाटदृढविपुलवक्षाः ऐरावणशुण्डावत् प्रलम्बबाहुः। 3) एकाङ्गेन एकक इत्यर्थः । वैरिसैन्यं धरति नाथः ।
१एकपादो N. २ मात्रासमादेः BDNP. ३ मात्रासमस्य BDNP. ४ तदपि B. ५ भगवनाट्ये A. ६ पञ्चधा F. ७ गुरुद्वयं चतुर्मात्रो dropped in N. ८ चन्द्यां N. ९ नृत्यगतिं A. १० प्रथमचगणे P. ११ एकमेदः A. १२ पद्धडिके. A. १३ इक्कंगिण A. १४ धरइ K,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org