SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १२४ छन्दोऽनुशासनम् । ॥ऽ; s||; ||||; द्वितीये त्रयः ss; Is; sil; तृतीये द्वौ I SI IIII; चतुर्थे द्वौ ss; IIS; अन्योऽन्यताडनायां प्रतिपादमष्टाचत्वारिंशत् । अन्योऽन्यताडनायां " सैव संख्या । यथा"सौरभपाण्डिममहिमविशेषान्-, नागरखण्डाधिकप्रमोदम् । दधदधुना भूप गीयते ते, चारु यशो वानवासिकाभिः ।। ६९.१ ।। एभिः पादाकुलकम् ॥ ७० ॥ एभिः मात्रासमैकादिपादैः रचितं पादाकुलकम् । तच्च द्विक-त्रिक-चतुष्कसंयोगभेदात् पञ्चषष्टिभेदम् । तत्र द्विक्संयोगे मात्रासमकस्य त्रयः पादाः, उपचित्रादिचतुष्टयस्यैकैः इति चत्वारः । उपचित्रायास्त्रयः पादाः, मात्रासमकादिचतुष्टयस्यैकैकः इति चत्वारः । विश्लोकस्य त्रयः पादाः, मात्रासमकादिचतुष्टयस्यैकैकः इति चत्वारः । चित्रायास्त्रयः पादाः, मात्रासमकादिचतुष्टयस्यैकैकः इति चत्वारः । तथा वनवासिकायास्त्रयः पादाः, मात्रासमकादिचतुष्टयस्यैकैकः इति चत्वारः । मात्रासमकस्य द्वौ पादौ, उपचित्रायाः, विश्लोकस्य, चित्रायाः, वानवासिकायाश्च प्रत्येकं द्वाविति भेदाश्चत्वारः । मात्रासमकं हित्वा उपचित्रायाः द्वौ पादौ विश्लोकस्य, चित्रायाः, वानवासिकायाश्च प्रत्येकं द्वाविति त्रयो भेदाः। मात्रासमकमुपचित्रां च हित्वा विश्लोकस्य द्वौ पादौ, चित्रायाः, वानवासिकायाश्च, प्रत्येकं द्वाविति द्वौ भेदौ । मात्रासमकमुपचित्रां विश्लोकं च हित्वा चित्रायाः द्वौ पादौ वानवासिकाया द्वावित्येकः । एवं त्रिंशत् । त्रिकसंयोगे मात्रासमकस्य द्वौ पादौ, उपचित्राविश्लोकयोः, उपचित्राचित्रयोः, उपचित्रावानवासिकयोः, विश्लोकचित्रयोः, विश्लोकवानवासिकयोः, चित्रावानवासिकयोः प्रत्येकं द्वाविति षड् भेदाः । उपचित्रायाः द्वौ पादौ मात्रासमकवि श्लोकयोः, मात्रासमकचित्रयोः, मात्रासमकवानवासिकयोः, विश्लोकचित्रयोः, विश्लोकवानवासिकयोः, चित्रावानवासिकयोः प्रत्येकं द्वाविति षड् भेदाः । तथा विश्लोकस्य द्वौ पादौ, मात्रासमकोपचित्रयोः,मात्रासंमकचित्रयोः, मात्रासमकवानवासिकयोः, उपचित्राचित्रयोः, उपचित्रावानवासिकयोः, चित्रावानवासिकयोश्च प्रत्येकं द्वाविति षड् भेदाः । चित्रायाः द्वौ पादौ मात्रासमकोपचित्रयोः, मात्रासमकविश्लोकयोः, मात्रासमकवानवासिकयोः, उपचित्राविश्लोकयोः, उपचित्रावानवासिकयोः, विश्लोकवानवासिकयोश्च प्रत्येकं द्वाविति षड् भेदाः । तथा वानैवासिकायाः द्वौ पादौ, मात्रासमकोपचित्रयोः, मात्रासमकविश्लोकयोः, मात्रासमकचित्रयोः, उपचित्राविश्लोकयोः, उपचित्राचित्रयोः, 1 ) सैव संख्येति - ५३०८४१६ | 2 ) सौरभेति पाण्डिमा धवलत्वम् । नागेति - ताम्बूलीपत्रम् । वनवासे भवं वानवासं फलादि तद्विद्यते यासां ताभिः । २ ते dropped in B. १ षण्डा० A. ५ उपचित्राचतु • N. ३ मात्रासमादिपादैः CDN. The sentence is dropped in A. ४ द्वित्रिचतुष्कसं० . dropped in A. ८ A reads मात्रासम for मात्रासमक in the whole passage ९ N drops the word. १० Repeated in 4 ११ वानवासिका द्वौ पादौ 4, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy