________________
१२२
छन्दोऽनुशासनम् ।
ओजजा पश्चिमान्तिका ॥३॥ मागधिकाया ओजपादेन जनिता पश्चिमान्तिका । यथा
"उदयं लब्ध्वा महीतले, सन्तापकरः कथं भवान् ।
दिवसापगमेऽस्तकारिणी, तरणे तव पश्चिमान्तिका ॥ ६३.१ ॥ अत्र प्रथमपादविकल्पशतेन द्वितीयपादविकल्पशतं ताडितं जातानि दश सहस्राणि पूर्वार्धे । अपरार्धेऽप्येवम् । अन्योऽन्यताडनायां जाता दश कोट्यः ॥ ६३.१ ॥
युग्जोपहासिनी ॥ ६४॥ मागधिकायाः समपादैर्जनितोपहासिनी । यथा
"वपुषेयं द्रुतहेमभासिनी, लोचनलक्ष्म्याम्बुजविलासिनी ।
ध्रुवा मनसिजधनुःप्रकाशिनी, वदनरुचा चन्द्रोपहासिनी ॥ ६४.१ ॥ अत्र प्रथमपादविकल्पानां षष्टयधिकशतद्वयेन द्वितीयपादविकल्पास्तावन्त एवाहताः।जातानि सप्तषष्टिः सहस्राणि षट्शताधिकानि पूर्वार्धे । अपरार्धेऽप्येवम् । अन्योन्यताडनायां "चत्वार्यजानि षट्पञ्चाशत्कोट्यः सप्तनवतिर्लक्षाः षष्टिः सहस्राणि ॥६४.१॥
वैतालीयप्रकरणं त्रिंशत् ॥
अजमुखश्चीगन्तो नवमे ले मात्रासमकम् ॥ ६५ ॥ न विद्यते जगणो मुखे यस्यासावजमुखः । चीरिति चत्वारश्चगणाः । गुर्वन्ताः । नवमे लघौ सति मात्रासमकम् । "तत्राद्ये चगणे चत्वारो विकल्पाः ऽऽ; us; ; द्वितीये त्रयः ss; us; sh; मध्यगुरुसर्वलघुविकल्पौ तु "विश्लोकेनापोदितत्वान भवतः । तृतीये एकः ॥5; नवमे ले इति वचनादादिगुरुसर्वगुरू न भवतः । मध्यगुरुसर्वलघू तु वानवासिकालक्षणेनापोदितौ । चतुर्थे द्वौ ऽऽ; ॥5; गन्तत्वाभिधानादन्यविकल्पानामप्राप्तिः । अन्योन्यताडनायां प्रतिपादं चतुर्विंशतिर्भेदाः । चतसृणां चतुर्विंशतीनामन्योऽन्यताडनायां जातं तिस्रो लक्षाः एकत्रिंशत्सहस्राः सप्त शतानि षट्सप्तत्यधिकानि । यथा
1) उदयं लब्ध्वेत्यत्र अन्योक्तिः। उदयं प्रतिष्ठां प्राप्य कथं भवान् संतापकृत् । किंतु इदं न जानासि तव विनाशकारिणी पश्चिमान्तिका अन्तिकप्रान्तावस्था। ततो भव्यं किमपि कुरु । अथवा पश्चिमा दिक् अन्तिका समीपस्था। 2) वपुषेत्यत्र द्रुतं गलितम् । 3) चत्वार्यजानीति-कोटिशतसंख्यमब्जम् । 4) तत्राये गणे चत्वारो विकल्पा इति-जगणरूपचगणस्य वर्जितत्वात् । 5) विश्लोकेनेति-लौ पञ्चमाष्टमौ विश्लोकः । 6) वनवासिकालक्षणेनेति - द्वादशश्च वानवासिका । अयमर्थः-द्वादशश्वकारामवमश्च यत्र लघुर्भवति सा वानवासिका।
१मागधिकायाः placed after जनिता in A. २ षष्टिसहस्राणि P. ३ आदिगुरुसर्वलघू N. ४ अपोदितत्वात् ACDN..
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org