________________
१२१
तृतीयोऽध्यायः। आपातलिकोदीच्यवृत्तिचारुहासिनी यथा
"विशालवंशादपि जातः, सदा प्रकटयन्नतिमेकाम् । धनुःसदृशतां कलय त्वं, गुणाधिरोहोऽभिमतश्चेत् ॥ ६०.६ ॥
अत्रापि भेदत्रये प्रथमपादविकल्पाभ्यां द्वितीयपादविकल्पावाहतौ चत्वारः पूर्वार्धे । अपरार्धेऽपि तावन्तः । अन्योज्यताडनायां षोडश ॥ ६०.६ ॥
सर्वेष्वाद्यलाद् गो दक्षिणान्तिका ॥ ६१॥ वैतालीयादेः "यथासंभवं सर्वेषु पादेषु आद्याल्लघोः परो गुरुश्चेद् भवति तदा दक्षिणान्तिका । यथा
"तुषारसंभारवेदना-, भियेव हैमवतीं त्यजन् दिशम् ।
मयूखवानेष संप्रति, प्रयाति सरणिं दक्षिणान्तिकाम् ॥ ६१.१ ॥ ' एवमौपच्छन्दसकापातलिकयोरुदाहार्यम् । अत्र भेदत्रयेऽपि प्रत्येकं प्रथमपादविकल्पद्वयेन द्वितीयपादविकल्पाश्चत्वारो हताः अष्टौ पूर्वार्धे । अपरार्धेऽपि तावन्तः । अन्योऽन्यताडनायां चतुःषष्टिः ॥ ६१.१॥
ओजे चौ युजि षचौ लदलदान्तौ मागधी ॥ ६२॥ विषमे चौ चतुर्मात्रौ द्वौ गणौ लदलदान्तौ । समे पचौ षण्मात्र-चतुर्मात्रौ च लदलदान्तौ । ते यत्र भवतः सा मागधी । लदलदान्ताविति-ल इति लघुः, द इति मात्राद्वयम् । पुनर्लघुर्मात्राद्वयं चान्ते ययोस्तौ तथा । यथा
"मधुसहचरीह पिकरमणी, नवसहकारविहारलालसा ।
त्रिजगज्जयिनो मनोभुवो, मङ्गलगीतौ भवति मागधी ॥ ६२.१ ॥ . अत्र प्रथमपादे चौ पञ्च-पञ्चभेदौ । ल एकभेदः, दो विभेदः पुनर्ल एकभेदः, दो द्विभेदः। ऐषामन्योऽन्यताडने जातं शतम् । द्वितीयपादे षस्त्रयोदशभेदः। चः पञ्चभेदः । ल एकभेदः। दो द्विभेदः। पुनर्ल एकभेदः। दो द्विभेदः। अन्योन्यताडने षष्टयधिकशतद्वयम् । अस्य प्रथमपादविकल्पैस्ताडने जातानि षड्विंशतिः सहस्राणि पूर्वार्धे विकल्पाः । अपरार्धेऽप्येवम् । अन्योज्यताडने जाताः सप्तर्षष्टिः कोट्यः षष्टिलक्षाधिकाः ॥६२.१ ॥
1) विशालेत्यत्र गुणाः शौर्यादयः। पक्षे मौर्वी। 2) यथासंभवमित्यत्र प्राच्यवृत्ति-उदीच्यवृत्तिछन्दसी वर्जयित्वा । यतः प्राच्यवृत्तेर्भणितचतुःप्रकाराणां मध्यादेकस्मिन्नप्याद्यलाद गो न भवति । उदीच्यवत्तिरुक्तमध्ये एवान्तर्भूता । तस्या एवंविधस्यैव लक्षणस्य प्रतिपादित्वात् । 3) तुषारसंभारेत्यत्र हिमाचलसंबन्धिनी दिशं अर्थादुत्तराम् । मयूखवान् रविः। दक्षिणस्याः समीपवर्तिनी सरणिं मार्गम्। 4) मधुसहचरीत्यत्र वसन्तस्य सखी कोकिला । नवाम्रक्रीडनासक्ता । मागधी मङ्गलगानकी ।
३ एषाम
१ मयूषवान् A. २-२ एषामन्योन्य. to दो द्विमेदः (२nd) is dropped in N. न्योन्य० 03; अन्योन्याभ्यासे A. ४ पाद dropped in A. ५ सप्तषष्टिकोट्यः ACN.
१६ छन्दो०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org