SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ १२० छन्दोऽनुशासनम् । इयमुत्पातलिकेत्येके । अत्रापि भेदत्रये प्रत्येकं प्रथमपादविकल्पैश्चतुर्भिद्वितीयपादविकल्पाश्चत्वारः आहताः षोडश पूर्वार्धे । उत्तरार्धेऽपि तावन्तः । अन्योज्यताडनायां द्वे शते षट्पञ्चाशदधिके ॥ ५९.६ ॥ ओजजा चारुहासिनी ॥ ६०॥ वैतालीयादेविषमपादजाता चारुहासिनी । तत्र वैतालीयचारुहासिनी यथा यदि सा बत चारुहासिनी, किमु "चन्द्रिकयानया ततः । यदि सा च विलोललोचना, किमु नीलसरोजिनीवनैः ॥ ६०.१ ॥ वैतालीयोत्तरान्तिकेत्येके ॥ ६०.१ ॥ औपच्छन्दसकचारुहासिनी यथा - "ततिरिह गगने न तारकाणां, प्रतिदिशमुदिता विभाति किं तु । सरभसमुपसर्पतः सुधांशोः, कीर्णः कुसुमाञ्जली रजन्या ॥ ६०.२ ॥ औपच्छन्दसकोत्तरान्तिकेत्येके ॥ ६०.२ ॥ आपातलिकाचारुहासिनी यथा भाति सुवदने तव भाले, नवमलयजचित्रकलेखा । पद्मं जित्वा नर्यनाभ्याम् , उत्क्षिप्तेवेह पताका ॥ ६०.३ ॥ ____अवपातलिकेत्यन्ये । अत्र भेदत्रये प्रत्येकं प्रथमपादविकल्पैरष्टभिर्द्वितीयपादविकल्पाः अष्टावाहताः चतुःषष्टिः पूर्वार्धे । अपरार्धेऽपि तावन्तः । अन्योन्यताडनायां चत्वारिंशच्छतानि षण्णवत्यधिकानि ॥ ६०.३॥ वैतालीयोदीच्यवृत्तिचारुहासिनी यथा "हृदि प्रविष्टा मृगेक्षणा, तथा यथेहैव तस्थुषी। मनोभुवो निपतच्छरैर्, निरन्तरैः कीलितेव सा ॥ ६०.४ ॥ औपच्छन्दसकोदीच्यवृत्तिचारुहासिनी यथा "विदग्धयूनां पतद्भिरेभिः, स्खलद्गतिरिवायतैः कटाक्षैः । इयं सुजघनातिमन्दमन्दं, सखे वितनुते पदप्रपञ्चम् ॥ ६०.५ ॥ 1) चन्द्रिकया अनयेति-चन्द्रज्योत्स्नया । श्यामकमलवनैः । 2) ततिरिहत्यत्र ततिः श्रेणिः । सरभसं सादरम् । कुसुमेति प्रसिद्धा। 3) भाति सुवदने इत्यत्र नवेति-तिलकरेखा । उत्क्षिप्तेवेति-ऊर्वीकृतेव पताका। 4) हृदि प्रविष्टेत्यत्र मम इयं हृदये तथा प्रविष्टा यथा इवोत्प्रेक्षते मम हृदये किं कीलिता। हृदयान्न निःसरतीति भावः। 5) विदग्धेत्यत्र आयतैर्विस्तीर्णः । सुजघनेति-कान्ता । १ इमां उत्पातलिका केचिदाहुः F.२ लोल dropped in B. ३ चित्रके लेखा A.४ नयानाभ्यां A. ५ इत्येके P. ६ अष्टाहताः P. ७ निःपतत् c. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy