________________
तृतीयोऽध्यायः। वैतालीयादेर्युक्पादजा अपरान्तिका ॥ ५९॥ वैतालीय - औपच्छन्दसक-आपातलिका - तत्प्राच्यवृत्तीनां समपादैर्जनिता अपरान्तिका । तत्र वैतालीयापरान्तिका यथा
"दिशतीं दुग्धपयोधिविभ्रम, लवणाब्धेरिह रोधसि स्थिताः । श्रीसिद्धाधिप कीर्तिमुच्चकैस् , तव गायन्त्यपरान्तिकाः स्त्रियः ॥ ५९.१ ॥
इयं वैतालीयदक्षिणान्तिकेत्येके ॥ ५९.१ ॥ औपच्छन्दसकापरान्तिका यथाश्रीचौलुक्य किमद्भुतं पपात, व्योम्नो यत्त्वयि दिव्यपुष्पवृष्टिः । प्राक् तस्मिन्नरिकुम्भिकुम्भभेदात् , कीर्णा मौक्तिकपतयस्त्वया हि ॥ ५९.२ ॥
इयमौपच्छन्दसकदक्षिणान्तिकेत्येके ।। ५९.२ ॥ आपातलिकापरान्तिका यथा
"तरुणीवैषा दीपितकामा, विकसज्जातीपुष्पसुगन्धिः । उन्नतपीनपयोधरभारा, प्रावृट् तनुते कस्य न हर्षम् ॥ ५९.३ ॥
___ इदं नलिनमित्येके। अत्र भेदत्रये प्रत्येकं प्रथमपादविकल्पैस्त्रयोदशभिर्द्वितीयपादविकल्पास्त्रयोदश आहताः एकोनसप्तत्यधिकं शतं पूर्वार्धे विकल्पाः। उत्तरार्धेऽपि तावन्तः । अन्योज्यताडनायां जातान्यष्टाविंशतिसहस्राणि पश्च शतान्येकषष्ट्यधिकानि ॥ ५९.३ ॥
वैतालीयप्राच्यवृत्त्यपरान्तिका यथा
"आगतोऽसि धूर्तापरान्तिकान्-, न ह्यलीकवाचामिहास्पदम् । - जतुरसोऽयमक्ष्णोस्तथाधरे, कजलं च यत्ते विलोक्यते ॥ ५९.४ ॥ औपच्छन्दसकप्राच्यवृत्त्यपरान्तिका यथाकेवलस्य न गिरेर्यदंहिपद्मा-, ङ्गुष्ठपीडनवशाच्छिरः सुमेरोः ।
कम्पितं दिविषदां च विस्मितानां, पातु पश्चिमजिनः स वोऽद्भुतश्रीः ।। ५९.५ ॥ आपातलिकाप्राच्यवृत्त्यपरान्तिका यथा
"सुभग हे सरभसं सविलासः, प्रतिमुहुस्तरललोचनपातैः ।
संगमोत्सवविधौ तव सत्यं-, कारमर्पयति पङ्कजनेत्रा ।। ५९.६ ॥ 1) दिशती दुग्धेत्यत्र अपरान्ते पश्चिमदिगन्ते भवाः अथवाऽपरस्यान्तिकाः पश्चिमदिग्वर्तिन्यः इत्यर्थः । 2) तरुणीवैषेति-अत्र कान्तेव उभयोरपि दीपितेति समानं विशेषणम् । जातिकुसुमैः सुगन्धिः । स्त्रीपक्षे तद्वत् सुगन्धिः । पयोधरा मेघाः स्तनाश्च । 3) आगतोऽसीत्यत्र कस्या अपि स्त्रियः पुरः प्राणेशो वक्ति नाहं कस्या अपि समीपादागतोऽस्मि अपरायाः कामिन्या इत्यर्थः । परस्परं नेत्राधरचुम्बनेन अधरे कज्जलं लोचने लाक्षारसः। 4) सुभगेत्यत्र सत्यकारं 'सचकार' इति प्रसिद्धम् ।
१ वचसा E.
२ अंह्रिपदाङ्गुष्ठ 0; अङ्गिपद्माङ्गुष्ठ N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org