SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ ११८ छन्दोऽनुशासनम् । "विवस्वतोदीच्यवृत्तिना, मरुता दक्षिणवृत्तिना तथा । जनोऽयमिह जायते "मधौ, युगपत्तापतुषारभाजनम् ॥ ५७.१ ।। औपच्छन्दसकोदीच्यवृत्तिर्यथा भवद्गुणकथाश्रुतेरमर्षाद् , दशनैरोष्ठमखण्डयन्नृपा ये। महीश युधि 'चेटचिह्नमेते, विदधत्यङ्गुलिखण्डनं त्वदने ॥ ५७.२ ।। आपातलिकोदीच्यवृत्तिर्यथा विनम्रसुररत्नकिरीट-, रश्मिविमिश्रितपादनखांशुः । अगाधकरुणारससिन्धुः, पातु स वश्चरमो जिननाथः ।। ५७.३ ॥ अस्या अपि विकल्पौ द्वौ ।।s; is; युक्पादविकल्पैस्त्रयोदशभिराहतौ षड्विंशतिः पूर्वार्धभेदाः । अपरार्धेऽपि तावन्तः । अन्योन्यताडनायां जातानि षट् शतानि षट्सप्तत्यधिकानि ॥ ५७.३ ॥ ते मिश्रे प्रवृत्तकम् ॥ ५८॥ ते प्राच्यवृत्युदीच्यवृत्ती मिश्रे संकीर्णे प्रवृत्तकम् । युक्पादे मात्रात्रयाद् गुरुः, अयुक्पादे आद्यलाद् गुरुरित्यर्थः । इदमपि वैतालीयादिभेदात् त्रेधा। तत्र वैतालीयप्रवृत्तकं यथा "प्रवृत्तकरिविद्रवं रथ-, भ्रष्टनष्टसुभटं "विवाजि च । द्विषां बलमजायत त्वयि, क्षमापते "क्षणमधिज्यधन्वनि ॥ ५८.१ ॥ औपच्छन्दसकप्रवृत्तकं यथा "पुरो दिनपतेरमुष्य सद्यः, पश्य संप्रति कठोरपादपातैः । स्फुटन्ति कमलाकराः समन्ताच-, छीर्यते च सहसा तमिस्रराशिः॥५८.२ ।। आपातलिकाप्रवृत्तकं यथा "भवच्चरणयोः प्रणयित्वं, यान्ययुः क्षितिभृतां न शिरांसि । क्षणाद् ददृशिरे युधि तानि, क्षुद्रगृध्रचरणप्रणयीनि ॥ ५८.३ ॥ अत्र प्रथमपादविकल्पाभ्यां द्वितीयपादविकल्पाश्चत्वारः आहताः अष्टौ पूर्वार्धे विकल्पाः । एवमुत्तरार्धेऽपि । अन्योन्यताडनायां चतुःषष्टिविकल्पाः ॥ ५८.३ ॥ 1) विवस्वतोदीच्येत्यत्र उत्तरदिग्वर्तिना सूर्येण दक्षिणदिग्वर्तिना वायुना। 2) वसन्ते समकालं तापशीतपदम् । सूर्येण तापो मरुता तुषारश्च शीतलतया। 3) भवद्गुणेत्यत्र श्रवणात् । अमर्षात् क्रोधात् । दन्तरधरं राजानः। 4) दासलक्षणम् । 5) प्रवृत्तकरीत्यत्र पूर्वं भ्रष्टाः पश्चान्नष्टा रथेभ्यः भ्रष्टनष्टाः सुभटा यत्र। 6) विगताश्वम् । 7) ज्यामधिरूढं तस्मिन् । 8) पुरो दिनपतेरित्यत्र कठिनकिरणपतनैः विकसन्ति फ्याकरा लक्ष्मीवन्तश्च । स्फुटति ध्वान्तराशिः। 9) भवच्चरणेत्यत्र अयुरिति-इक् गतौ । १ दक्षिणावृत्तिना A; दक्षिणावर्तिना E. २ कथा dropped in N. ३ तमिश्र० CP. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy