SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। ११७ कीर्तिस्तव वल्लभा त्रिलोकीम् , अखिलां पर्यटतीति यत् प्रबुद्धाः । कवयः कथयन्ति सत्यमेतन्-, "नौपच्छन्दसको भवन्ति सन्तः ॥ ५४.१ ॥ भगगान्ता आपातलिका ॥ ५५॥ ओजे षण् मात्राः युज्यष्टौ भगणगुरुद्वयान्ताश्चेद् भवन्ति शेषं वैतालीयसमं तदा आपातलिका नाम च्छन्दः । यथा "आपातलिका बत संपत्, क्षणिकं प्राणितमप्यसुभाजाम् । इति मत्वा निश्चयपूर्व, शाश्वतिकार्थे यत्नमुपाद्धम् ॥ ५५.१ ।। ___ आपातलिका अस्थिरा ॥ ५५.१ ॥ युजि तिसृभ्यो गः प्राच्यवृत्तिः॥५६॥ युक्पादयोस्तिसृभ्यो मात्राभ्यः परो गुरुश्चेत् तदा प्राच्यवृत्तिच्छन्दः। ओजयोस्तु पूर्ववत् । सा च वैतालीय-औपच्छन्दसक-आपातलिकोपाधिभेदात् त्रेधी । तत्र वैतालीयप्राच्यवृत्तिर्यथा "भुवने दधदेकवीरता, त्यागधर्मकरुणापराक्रमैः । .. नृपसिंह पटच्चरी निज-, प्राच्यवृत्तिमकरोः पुनर्नवाम् ॥ ५६.१ ।। औपच्छन्दसकप्राच्यवृत्तिर्यथा "उदयाचलवप्रभागवल्गत्-, सप्तसप्तितुरगांहिताडनोत्था । नवपल्लवपाटला पुरस्ताद्, धातुधूलिपटलीव भाति सन्ध्या ॥ ५६.२ ॥ आपातलिकाप्राच्यवृत्तिर्यथा "अलिमलिने व्योम्नि पतन्तो, रश्मयोऽभिनवशीतमरीचेः । दधति तुलामन्तरुदन्वत्-, सान्द्रविद्रुमलताविपिनानाम् ॥ ५६.३ ॥ अत्र चत्वारो विकल्पाः । यथा sisis; msis; sis; ms॥ ते च ओजपादविकल्पैरष्टभिराहता द्वात्रिंशत्पूर्वार्धविकल्पाः। उत्तरार्धेऽपि तावन्तः । अन्योज्यताडनायां दश शतानि चतुर्विंशत्यधिकानि । इयमुपपातलिकेत्येके ॥ ५६.३ ॥ अयुज्याद्यलाद् ग उदीच्यवृत्तिः॥ ५७ ॥ अयुक्पादयोराद्याल्लघोः परो गुरुश्चेत् तदा उदीच्यवृत्तिः। युजोस्तु पूर्ववत् । एषापि पूर्ववत् त्रिधा । तत्र वैतालीयोदीच्यवृत्तिर्यथा 1) नौपच्छन्दसका इति-छन्द उपपन्नं च्छन्दोऽनुवर्तनम् । तत्र भवेऽण । स्वार्थ कश्च । 2) आपातलिकेत्यत्र आपातं समन्तात्पतनं लातीति आपातला । ततः स्वार्थ कः । प्राणितं जीवितम् । उपाध्वं उद्यम कुरुध्वम् । 3) पूर्ववदिति-वैतालीयादिवत् । 4) भुवने दधेत्यत्र पटच्चरी जीर्णाम् । स त्वं इत्यध्याहार्यम् । 5) उदयाचलेत्यत्र सप्तसप्तिः सूर्यः। 6) अलिमलिने इत्यत्र अन्तदन्वेति-समुद्रमध्ये । घनप्रवालवल्लिवनानाम् । १ कवयन्ति N. २ नौपच्छन्दसिका K. ३ प्राग्वत् F. ४ त्रिधा F. ५ तुरगाडि N. ६ तावद्भिरेवोत्तरार्धसत्कैस्ताडिताः १०२४ F. ७ इत्यन्ये P. ८ आद्याल्लाद्गः GH, ९ आद्याल्लाल्लघोः A. १० प्राग्वत् F. ११ त्रेधा P.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy