________________
११६
छन्दोऽनुशासनम्। "सौम्यतस्याः किं बालाया नो जानीषे कष्टावस्थाम् । धरणितलविलुठनमलिनितकुचकलशमनुभवति त विरहमिह किल ॥ ५१.१ ॥
व्यत्यये ज्योतिः ॥५२॥ यत्र पूर्वार्धे द्वात्रिंशल्लघव उत्तरार्धे षोडश गुरवस्तच्छन्दो ज्योतिः । यथा
"परिहर बत परिचयमयि युवतिषु किमिति' नहि विसृजसि विषयसुखमिह ।
ज्योतीरूपं निष्कर्माणं कृत्वात्मानं मुक्तिं यायाः ॥ ५२.१ ॥ एते द्वे अप्यनङ्गक्रीडे इति जयदेवः । शिखेत्यहीन्द्रः॥५२.१॥
विषमवृत्तप्रकरणम् ।।
*
अथ मात्राच्छन्दांसि । ओजे षण्मात्रा लगन्ता युज्यष्टौ न युजि षट् संततं ला न समः परेण गो वैतालीयम् ॥ ५३॥
ओजपादयोः षण्मात्रा लगन्ताः रगणलघुगुर्ववसानाः। युक्पादयोरष्टौ मात्राः लगन्ता एव यत्र तद्वैतालीयं नाम च्छन्दः । अपवादमाह-न युजोः पादयोः षड् लघवो निरन्तरा भवन्ति । "न च समो लः सर्वपादेषु परेण सह गुरुर्भवति । यथा- .
"अधुना भवदीयवैरिणाम् , अटवीकोटरचारिणां नृप ।
प्रतिभाति तृषान्धचेतसां, वै तालीयरसः सुधोपमः ॥ ५३.१ ॥ "अत्रौजपादेऽष्टौ विकल्पाः । युक्पादे त्रयोदश । अष्टभिस्त्रयोदश गुणिताश्चतुरुत्तरं शतं वैतालीयपूर्वार्धे भेदा भर्वन्ति । उत्तरार्धेऽपि तावन्त एव । अन्योज्यताडनायां जातानि दश सहस्राणि अष्टौ शतानि षोडशाधिकानि ॥ ५३.१॥
यान्ता औपच्छन्दसकम् ॥ ५४॥ ___ ओजे षण्मात्रा युज्यष्टौ र्यान्ता रगणयगणान्ताश्चेद् भवन्ति शेषं तु सर्व वैतालीयसमं तदा औपच्छन्दसकं नाम च्छन्दः । यथा
1) सौम्यैतस्याः बालायाः मुग्धाया दुःखावस्थाम् । 2) परिहरेत्यत्र परिचयं संसर्ग यायाः गच्छेः । 3) न च समो ल इति -द्वितीयचतुर्थषष्ठादिवर्णः समः स लघुः सन्नग्रेतनेन अक्षरभारेण गुरुन कार्य इत्यर्थः। 4) अधुनेति-वै निश्चयेन । ताल्या अयं तालीयः। 5) अनौजपादे[ष्टौ] विकल्पा इति-अत्र वैतालीयस्य विषमपादे त्रयोदशधा षगणः प्रस्तार्यते तत्र या सममात्रा पराश्रिता भवति तान् विकल्पान् परित्यज्य शेषा अष्टौ गृह्यन्ते । युक्पादयोराया गणद्वयं प्रथमं प्रस्तार्यते ततो विंशतिर्विकल्पा भवन्ति । ततो येषु रूपेषु समा मात्रा पराश्रिता भवति तत्प्रस्तारान् परित्यज्य अपरे ग्राह्याः।
१ तव dropped in A. २ अपि CDFNP, ३ किमति N. ४ निःकर्माणं P. ५ गन्ता GH, ६ स्युः F.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org