SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ तृतीयोऽध्यायः। ११५ म्सज्भगगाः लजरंगाः नासौ निज्याः पादेषूपस्थितप्रचुपितम् ॥ ४८ ॥ प्रथमे पादे मसजभगगाः, द्वितीये पौदे सनजरगाः, तृतीये ननसाः, चतुर्थे नगणत्रयं जयौ च यत्र भवन्ति तदुपस्थितप्रचुपितं वृत्तम् । यथा "राजन् यैः समरे मदादुपस्थितपूर्व, द्विरदप्रचुपितयायिभिर्विपक्षैः। तव धनुरुरुनिनदाद्, द्रुतगति मृगवदपसरन्ति त एते ॥ ४८.१ ॥ नौ लौ सौ तृतीये वर्धमानम् ॥ ४९॥ उपस्थितप्रचुपितमेव तृतीये पादे ननसननसाश्चेद् वर्धमानम् । तृतीये इति वचनादन्यत्पादत्रयं तदर्वंस्थमेव । यथा "दिग्यात्रासमयेऽद्य जैत्रतूर्यनिनादैर्, - वियति प्रतिरसितेन वर्द्धमानैः । भयतरलितगमनान् दिनकररथतुरगान , • कथमपि नृवर नियमयत्यरुणोऽयम् ॥ ४९.१ ॥ तज्राः शुद्धविराऋषभम् ॥५०॥ उपस्थितप्रचुपितमेव तृतीये पादे तजराश्चेत् तदा शुद्धविराऋषभम् । अन्यत्पादत्रयं तदवस्थमेव । यथा "लावण्यामृतपूरधारिणीह विशाल-, रमणोन्नतपुलिनस्थलीमनोज्ञा । सा शुद्धविराण्मुखाम्बुजा, सरिदिव रमयति हृदयानि नराणाम् ॥ ५०.१ ॥ उपस्थितप्रचुपितप्रकरणं त्रिभिः ॥ ५०.१ ॥ पूर्वेऽर्धे मुगौ परे न्लललाः सौम्या ॥५१॥ पूर्वार्धे पञ्च मगणा गुरुश्च । षोडश गुरव इत्यर्थः । उत्तरार्धे दश नगणा लद्वयं च द्वात्रिंशल्लघव इत्यर्थः यत्र तच्छन्दः सौम्या । यथा * 1) राजन् यैरित्यत्र राज्ञां समूहैः पूर्वमागतं गजवत् प्रचुपितं मन्दं याति इति । सलीलगतय इत्यर्थः । द्रुतगतीति-क्रियाविशेषणम् । 2) दिग्यात्रेत्यत्र तूर्य वादिनम् । वियत्याकाशे। प्रतिशब्देन । नियन्त्रयति सूर्यसारथिः। 3) लावण्यामृतपूरेत्यत्र शुद्धो धवलो वीनां पक्षिणां राजा राट् अर्थात् हंसः मुखे येषां एवंविधानि अम्बुजानि यस्यां सा । पक्षे शुद्धं निर्मलं विराजति इति विराट् । एवंविधं वदनाम्बुजं यस्याः सा न १स्नजर्गाः BFGHP. २पादे dropped in ABDP. ३ अपसरति N. ४ तदवस्थितमेव A. ५ नियमायत्य A. ६ प्रचुपित dropped in N, ७ पूर्वार्धे H; पूर्वे अर्धे ABCDN. ८ गुरुवः A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy