SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ११४ छन्दोऽनुशासनम् । भ्रातः शृणु "धरणीधरवाणीममृतमयीं, तत्काव्यगुणभूषणम् ॥ ४४.६ ॥ पदचतुरूर्ध्वप्रकरणं "सप्तभिः ॥ ४४.६ ॥ स्जस्ला न्सज्गा नजल्गाः स्जसज्गाः पादेषूद्गता ॥४५॥ . यस्य प्रथमे पादे सजसलाः, द्वितीये पादे नसजगाः, तृतीये पादे भनजलगाः, चतुर्थे पादे सजसजगाः-तद्वृत्तमुद्गता । यथा "बत चन्द्रिकाजलमशेषम् , उपरमयितुं चकोरकाः। शक्यमिह न खलु तत्परितः, पिबतोद्गतां सपदि चन्द्रलेखिकाम् ॥ ४५.१ ।। नभगास्तृतीये सौरभकम् ॥४६॥ उद्गतैव तृतीये पादे रनभगाश्चेत् सौरभकम् । तृतीय इति वचनादुद्गताया एवान्ये त्रयः पादा गृह्यन्ते । यथा "अतिरेकवान् किल गुणोऽपि, ___ कलयति कदापि दोषताम् । सप्तपर्णविटपी विलसन् , मदसौरभाद् "वनगजैर्विदल्यते ॥ ४६.१ ॥ नौ सौ ललितम् ॥४७॥ उद्गतैव तृतीये पादे ननससाश्चेल्ललितम् । पादत्रयं पूर्ववत् तदेव । यथा "सदलंकृतैर्गुणगणेन, विविधरसभावभङ्गिभिः। सुललितपदरचनाभिरहो, ललनेव का न कविता मनोरमा ॥ ४७.१ ।। उद्गताप्रकरणं त्रिभिः ॥ ४७.१ ॥ 1) धरणीधरः कविविशेषः। 2) सप्तभिरिति-पदचतुरूच १ प्रत्यापीडभेदद्वयं ३ आपीड ४ कलिका ५ लवली ६ अमृतधारा ७। 3) बत चन्द्रिकेत्यत्र काचिद्विरहिणी चकोरपक्षिणः प्राह-हे चकोराः भवद्भिरिति गम्यम् । उद्गतां इमां चन्द्रिकां यूयं पिबत पानं कुरुध्वम् । 4) अतिरेकवानित्यत्र अतिरेकः आधिक्यम्। 5) वनगजैरिति-वनगजा हि तद्गन्धं न सहन्ते इत्युत्पाटयन्ति । 6) सदलंकृतेत्यत्र प्रधा-' नोपमाद्यलंकारैर्भूषणैश्च । गुणा माधुर्यादयः १० शीलरूपादयः । विविधेति - शृङ्गारादयः गभीरार्थाः । पक्षे हावभावादयः । कान्तेव । कवेः कर्म कविता। १ वि dropped in N. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy