________________
११२
छन्दोऽनुशासनम्। स्वामिन् जिनवर तव,
योऽहिद्वितयमृषभ विनमति । नम्रामरमणिमयमुकुटशुचिकिरण,___ मालाकिसलयितचरणकमल इह दिवि भवति ॥ ४१.१ ॥
__ अन्ते च ॥४२॥ तत्पदचतुरूर्ध्वमन्ते चकारादादौ च द्विगं शेषसर्वलघुवर्ण पुनः प्रत्यापीडसंज्ञम् । ...
यथानियं प्रणमत भक्त्या,
पादद्वयमिह चरमजिनस्य । सद्यो यदमरनरभुजगपरिवृढानां, मौलौ सपदि भवति नवविकसितकमलवतंसः ॥ ४२.१ ॥ .
द्विगमापीडः॥४३॥ चानुकृष्टत्वादादाविति नानुवर्तते । अन्ते द्विगुरुकं शेषसर्वलघुकं पदचतुरूर्ध्वमापीडसंज्ञम् । यथा
"मदमुखरमयूरे, ___ स्फुटविविधसरिदधिकपूरे। नवघनसमय इह कलय बत कान्तां, शरणमयि पथिक हतक झगिति जहिहि वनान्तम् ॥ ४३.१ ॥
अत्र प्रतिपादं चतुर्भिर्यतिरिति कश्चित् ॥ ४३.१ ॥ पदचतुरूर्ववदापीडोऽपि चतुर्विंशतिधेति तन्मध्यात् "पूर्वाचार्यानुरोधेन भेदत्रयस्य नामान्युच्यन्तेस आद्यस्य द्वितीयादिना व्यत्यये कलिकालवल्यमृतधाराः॥४४॥
स आपीड आद्यस्य पादस्य द्वितीयंतृतीयतुर्यपाँदैविपर्यासे यथासंख्यं कलिकादयो भवन्ति । तत्राद्यस्य द्वितीयेन व्यत्यये कलिका । यथा
करकलितनिशितकरवालः,
सुचिरमवनिपालः। ____1) मदमुखरेत्यत्र नवीनमेघा शीघ्रं त्यज काननसमीपम्। 2) पूर्वाचार्यानुरोधेनेत्यत्र यद्यपि चतुर्विशतिधा स्थापिते आपीडे सर्वेऽपि विकल्पा अन्तर्भवन्ति तथापि पूर्वसूरिकृतप्रकारेण उदाहरणानां नामवयं पृथगुदाहार्यमिति। 3)करकलितेत्यत्र तीक्ष्णखड्नः। अवेति-राजा। कालो यमः।
१ योऽब्रिद्वितीय N. २ किशलयित . ३ द्विगं RF. ४ जहहि A. ५ चतुधैवेति इ. ६ द्वितीयादिपादैः F. ७ तुर्यैः पादः E. ८ कलिकाद्या यथाक्रमं स्युः F.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org