________________
तृतीयोऽध्यायः।
___११ जातिपक्षे सविपुला यथा
क्षणविध्वंसिनि काये का चिन्ता मरणे रणे।
को हि मन्दः सहसैव स्वल्पेन बह हारयेत ॥ ३९.१६॥ एवं व्यक्तिपक्षेऽप्यन्वेष्यम् । "संकीर्णाश्च विपुलाप्रकारा दृश्यन्ते ।
यथाक्वचित्काले प्रसरता "क्वचिदापत्य निघ्नता । शुनेव सारङ्गकुलं त्वया भिन्नं द्विषां बलम् ॥ ३९.१७ ॥ तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत्।।
हिमांशुमाशु असते तन् म्रदिन्नः स्फुटं फलम् ॥ ३९.१८ ॥ इत्यादि । ते स्वबुद्ध्याऽभ्यूह्याः । सर्वासां च विपुलानां चतुर्थो वर्णः प्रायेण गुरुर्भवतीत्यामायः।
वक्त्रप्रकरणम् ।
एकोऽष्टाक्षरः पादश्चतुर्वृद्धाः क्रमात् परे पदचतुरूवं चतुर्विंशतिधा ॥४०॥
एकः कश्चिदष्टाक्षरः पादस्ततोऽन्ये पादाः क्रमाच्चतुर्भिश्चतुर्भिर्वर्णैर्वृद्धाः कार्या इति पदचतुरूवंम् । तच्च न्यासभेदाच्चतुर्विंशतिधा । स्थापना यथा - | ८८८८८८/१२/१२/१२/१२/१२/१२/१६/१६/१६/१६/१६/१६/२०२०/२०/२०/२०२० १२|१६|२०|१२|१६|२०| ८|१६|२०| ८/१६/२०१२/ ८/२०/१२/ ८/२०/१२/१६/ ८/१२/१६/ र १६/१२/१६/२०/२०१२/१६/ ८/१६/२०/२०/८८/१२/ ८/२०/२०/१२/१६/१२/१६/८/८/१२ २०२०/१२/१६/१२/१६/२०२०/८/१६ ८१६२०२०/१२/ ८/१२/ ८८८/१२/१६/१२/१६
प्राप्ते वसन्तमासेऽस्मिन्न्-, - अनन्तरेणौषधि वल्लभां गेहिनीम् । पदचतुरूवं कथमिव पथिक यास्यसि, विषलतिकानामिवोत्फुल्लकङ्केल्लिलतानां गन्धं जिघ्रन् ॥ ४०.१ ॥
एवमन्येऽपि भेदा उदाहार्याः ॥ ४०.१॥ तदादौ द्विगं सर्वलं प्रत्यापीडः॥४१॥ तदेव पदचतुरूव॑मादौ द्विगुरुकं ततः परं सर्वलघुवर्ण प्रत्यापीडः । यथा
1) क्षणविध्वंसिनीति [अत्र ] रणे संग्रामान्तर्मरणे का चिन्तास्ति । 2) संकीर्णाश्चेति- एकः पादो नगणस्य द्वितीयो मगणस्य । एवं एको मगणस्यान्यः सगणस्येत्यादिना नगणादीनां संकरे। 3) क्वचिदापत्येत्यत्र स्वभानुः राहुः । माघकाव्ये वृत्तमिदम् ।
-
१ विघ्नता A. २ भानुमतः P. ३ मृदिम्नः B महिम्नः ०. ४क्रमाच्चतुर्भिर्वर्णैर्वृद्धिर्याकाः क्रमाच्चतुर्भिरिति पद० A. ५ कार्या droppoed in E. ६E adds:-षोढेको द्विर्द्विरन्येऽधस्तदन्ये तु क्रमोक्रमात् । चतुर्विंशतिभेदं स्याच्चतुरूवंक्रमोत्क्रमौ। ७ ओषधीं A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org