SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ११० छन्दोऽनुशासनम् । तथालोकवत्प्रतिपत्तव्यो लौकिकोऽर्थः परीक्षकैः। लोकव्यवहारं प्रति सदृशौ बालपण्डितौ ॥ ३९.६॥ जातिपक्षे भविपुला यथा इयं सखे चन्द्रमुखी स्मितज्योत्स्नावभासिनी। इन्दीवराक्षी हृदयं दन्दहीति तथापि मे ॥ ३९.७ ॥ व्यक्तिपक्षे यथा यस्य प्रभावाद् भुवनं शाश्वते पथि तिष्ठति । देवः स जयति श्रीमान् दण्डधारो महीपतिः ॥ ३९.८ ॥ तथामुक्तशेषविरोधेन कुलिशवणलक्ष्मणा । उपस्थितं प्राञ्जलिना विनीतेन गरुत्मता ॥ ३९.९ ॥ जातिपक्षे रविपुला यथा "वधूभिः पीनस्तनीभिस्तूलीभिः कुडमेन च । कालागुरुधूपधूमैर्हेमन्ते जयति स्मरः ।। ३९.१०॥ व्यक्तिपक्षे यथा महाकवि कालिदासं वन्दे वाग्देवतागुरुम् । यज्शाने विश्वमाभाति दर्पणप्रतिबिम्बवत् ॥ ३९.११ ॥ तथाकामिनीभिः सुखं संगः क्रियते पण्डितैरपि । यदि न स्याद् वारिवीचीचञ्चलं हतजीवितम् ॥ ३९.१२ ।। जातिपक्षे मविपुला यथा सर्वातिरिक्तं लावण्यं बिभ्रती चारुविभ्रमा। स्त्रीलोकसृष्टिः सा नूनं निःसामान्यस्य वेधसः॥ ३९.१३ ॥ व्यक्तिपक्षे यथा "मनोभिरामाः शृण्वन्तौ रथनेमिस्वनोन्मुखैः। षड्जसंवादिनीः केका द्विधा भिन्नाः शिखण्डिभिः ॥ ३९.१४ ॥ तथा"अदूरवर्तिनीं सिद्धिं राजन् विगणयात्मनः। उपस्थितेयं कल्याणी नाम्नि कीर्तित एव यत् ॥ ३९.१५ ॥ . 1) मुक्तशेषेत्यत्र उपस्थितं उपासितम् । प्राञ्जलिनेति-योजितहस्तेन । कुमारकाव्ये काव्यमिदम् । 2) वधूभिरित्यत्र जयतीति-लोकमिति शेषः। 3) सर्वातिरिक्तमित्यत्र सृज्यतेऽसाविति लोकानां मध्ये सृष्टिः । कर्मणि तिन् । 4) मनोभिरित्यत्र ख(प)ड्डसंवादिनीरिति-स्वरविशेष अनुवदन्ति । मयूर(रो) मन्द्रं रौति मयूरी तारम् । 5) अदूरवर्तिनीमित्यत्र विगणयेति-जानीहि । प्रकटितेयम् । का धेनुः। कीर्तिते [नाम्नि]। १ववामिनी A. २कालागरु N. ३दपणे प्र० B. ४खग N.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy