________________
१०९
तृतीयोऽध्यायः युक्पादयोः षड्भ्यः परो लघुश्चेद् विपुला । "नचेयं पथ्यया गतार्था । विपुलावर्गस्येदानीमारभ्यमाणत्वात् तां विना तस्यानुपपत्तेः । युक्पादयोः सप्तमेन लघुना अवश्यमेव भवितव्यं विषमपादयोस्तु नादिभियेगणस्यापवादं वक्ष्यति । पथ्यायां तु यगण एवावतिष्ठते ॥ ३७॥
सैतवस्य चतुषु ॥ ३८॥ सैतवस्याचार्यस्य मते चतुर्पु पादेषु षड्भ्यः परो लो भवति । यथा
विपुलेऽप्यम्बुधौ कृतं वर्त्म रामेण सैतवम् । चित्रमेतदिहाथवा किमसाध्यं महात्मनाम् ॥ ३८.१ ॥
तुर्यान्नतभ्रम्सास्तद्विपुला ॥ ३९ ॥ ओजे विपरीतादिरित्यत ओज इत्यनुवर्तते । ओजयोः पादयोस्तुर्यादैक्षरात् परे यगणं बाधित्वा नतभरमसाश्चेद् भवन्ति तदा तद्-विपुला । नविपुला तविपुला भविपुला रविपुला मविपुला सविपुला चेति । युजोः षड्भ्यो ल इति तु स्थितमेव । नविपुला यथा
पश्यन्ति देव चरणद्वयं ये तव भक्तितः।
तेषां भवन्ति विपुलाः सद्यः कल्याणसंपदः ॥ ३९.१ ॥ ओजे इति जातिपक्षे द्वयोरपि पादयोर्ग्रहणम् । व्यक्तिपक्षे पुनरेकस्य प्रथमस्य तृतीयस्य वा । तथा च "महाकवीनां प्रयोगः
अनाकृष्टस्य विषयैर्विद्यानां पारदृश्वनः । तस्य धर्मरतेरासीद् वृद्धत्वं जरसा विना ॥ ३९.२ ॥
तथातव मन्त्रकृतो मन्त्रैर्दूरात् संशमितारिभिः ।
प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः॥ ३९.३ ॥ तविपुला जातिपक्षे यथा
पादेन हता येन सा जातीलुब्धेन मल्लिका ।
अलेस्तस्य दैवादहो बर्यपि सुदुर्लभा ॥ ३९.४ ॥ व्यक्तिपक्षे
'वन्दे कविं श्रीभारविं लोकसंतमसच्छिदम् । दिवा दीपा इवाभान्ति यस्याने कवयोऽपरे ॥ ३९.५॥
. 1) पथ्यया गतार्था न भविष्यति यतस्तत्र जगणो भवति । नगणादिभिस्त्वियम् । न पथ्यालक्षणं एवं प्रायेण भवति । 2) महाकवीनामिति - कालिदासादीनाम्। 3) अनाकृष्टेत्यत्र पारं पश्यति पारदृश्वा । रघुवंशे। 4) तव मन्त्रेत्यत्र शान्ति प्रापिता अरयो यैस्ते तैः। 5) वन्दे कविमित्यत्र पक्षे भाभिः कान्तिभिः उपलक्षितो रविः।
१ युजोः F. २ ओजयोस्तु BF. ३ तुर्याक्षरात् c. dropped in B. ६ आद्यस्य F. ७ लक्ष. A..
४ पारयगणं A; परं यगणं . ५ पादयोः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org